________________
Jain Education
तत्-निर्विकल्पकमन्यतः शेषविज्ञानेभ्यो विशिष्टमतोऽवाधितविषयमिति चेत् । अत्राह - समानमेतत् एतत् - | विशिष्टत्वं विकल्पेऽपि समानं, तस्याप्यन्यतो विशिष्टत्वात् । कियच्चेहातिप्रबलमहामोहनिद्रावशविह्वलीभूतबुद्धीनामुस्वप्नायमानं प्रत्येकं प्रतिविधातुं शक्यमतोऽतिदेशेनो भयोरप्यवाधितविषयत्वं निमित्तसमानतामाचिख्यासुराह - 'इति एवमाईयमित्यादि' इतिः - अमुना प्रकारेण एवमादिकं यत् यत् अवाधितविषयतया निमित्तमिह - निर्विकल्पकेऽभिधीयते तत्तत् निमित्तमितरस्मिन्नपि - सविकल्प के समानं द्रष्टव्यम् ॥ ४३३ ॥ निमित्तासमानताविषयं पराभिप्रायं दुदूषयिपुराशङ्कते -
अच्चंताऽसाहारणगाहगमह तं ण एवमियरं ति । तस्सेवाभावातो एवं पि न जुत्तिपडिबद्धं ॥ ४३४ ॥
अथ निर्विकल्पक प्रत्यक्षमत्यन्ताऽसाधारणग्राहक मतोऽवाधितविपयं, बाह्यार्थस्य तथारूपत्वात् न एवमत्यन्ताSसाधारणग्राहक मितरत् - विकल्पज्ञानं, सामान्यविषयत्वात् तेन वाधितविषयं, बहिरर्थस्य सामान्यरूपतया अभावात् । अत्राह - ' तस्सेवेत्यादि' एतदपि अनन्तरोक्तं न युक्तिप्रतिबद्धम् । कुत इत्याह- तस्यैवात्यन्ताऽसाधारणस्याभावात् ॥ ४३४ ॥ स एव कथमितिचेत् अत आह
For Private & Personal Use Only
www.jainelibrary.org