SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ SCNCR है। संग्रहणि XALLOCALAM ॥१७॥ सत्तादीणं साधारणत्ततो अणुभवप्पसिद्धीतो। होज व भावाभावो तेसिं अञ्चंतभेदम्मि ॥ ४३५ ॥ सत्त्वादीनामादिशब्दात् ज्ञेयत्वप्रमेयत्वादीनां साधारणत्वात् । एतदपि कथं सिद्धमित्यत आह-अनुभवप्रसिद्धितः, अविगानेन ह्यनुभवप्रसिद्धाः सत्त्वादयो धर्मा वस्तूनां साधारणाः । अत्रैव विपक्षे वाधामाह-'होज वेत्यादि' वाशब्दोऽवधारणे भिन्नक्रमश्च, स च यथास्थानं योक्ष्यते । अन्यथा तेषां वस्तूनामत्यन्तं भेदे सति साधारणसत्त्वादिधर्माभावे सति भावाभाव एव-स्वरूपाभाव एव भवेत् । तथाहि-यदि सत्त्वस्यापि व्यावृत्तिस्ततोऽसत्त्वमेवापद्यत इति ॥४३५ ॥ अत्र परमतमाशङ्कमान आह जं एगम्मी सत्तं अन्नम्मिवि अह तु तस्स भावम्मि । पावइ एगत्तं चिय तेसिं तम्हा ठिओ भेदो ॥ ४३६ ॥ ___ अथ मन्येथास्तुः पूरणे, यत्सत्त्वमेकस्मिन् भावे वर्त्तते तस्य-सत्त्वस्यान्यत्रापि भावे सति तयोरेकत्वमेव प्राप्नोति, न चैतदस्ति, तयोर्भेदेनोपलभ्यमानत्वात् । तस्मात्तयोः सत्त्वस्य परस्परं भेदः स्थित इति ॥ ४३६॥ अत्राह साधारणं ण एगं अवि समाणतणं ति ण य एतं । OSAROLOGROCROCOCCC OROSCAMOST ॥१७८॥ Jain Education For Private & Personel Use Only |www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy