SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte एताऽभेदम्मि विजुज्जइ पच्चक्खसंसिद्धं ॥ ४३७ ॥ ननु सत्त्वादि साधारणमस्माभिरुक्तं, न च साधारणमित्येकमुच्यते, अपि तु परस्परं समानत्वम्, नचैतत्समानत्वं प्रत्यक्षप्रमाणसिद्धमेकान्ताभेदेऽपि युज्यते, आस्तामेकान्त भेदेऽपीत्यपिशब्दार्थः, तस्मान्न भावानां परस्परमेकत्वं प्राप्नोतीति । तदेवं यस्मात्साधारणसत्त्वाद्यनभ्युपगमे भावाभावः प्राप्नोति तस्मात्तदवश्यमङ्गीकर्त्तव्यम्, तथा च सति वस्तुनोऽत्यन्ताऽसाधारणरूपस्याभावात्तद्वाहकं भवत्परिकल्पितं निर्विकल्पकप्रत्यक्षमेव वाधितविषयं नतु प्रमाणसं - सिद्धसमानासमानरूपवस्तुग्रहणप्रवणं सविकल्पकमतस्तदेव प्रमाणं नत्वितरदिति ॥ ४३७ ॥ एतदेवोपसंहरन्नाह - तम्हा तग्गहणाओ ततो पवित्तीओं लोगसिद्धीओ । सवियप्पं पच्चक्खं सिद्धं ति कयं पसंगेण ॥ ४३८ ॥ तस्मात्तद्ग्रहणात्-समानासमानरूपवस्तुग्रहणात्तस्माच्च तद्ब्रहणात्प्रवृत्तेरविगानेन सकललोकसिद्धेः । चशब्दस्यानुक्तसमुच्चयार्थस्य गम्यमानत्वादेतदपि द्रष्टव्यं-प्रवृत्तस्य सतस्तथाभूतार्थप्राप्तेश्च संविकल्पकं ज्ञानं प्रत्यक्षं प्रमाणं सिद्धमक्षाश्रितत्वादविसंवादकत्वाच्च । ततः प्रत्यक्षप्रमाणेन अन्वयव्यतिरेकात्मकतया गृह्यमाणत्वाद्वस्तु परिणामरूपं सिद्धं, तत्सिद्धौ च सर्वथा विनाशाभावात् किमयं नाशः सहेतुकः किंवा निर्हेतुक इति चिन्ताऽप्यत्र नोपपद्यते इति कृतं For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy