SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ CAMPA | संग्रहणिः . ॥१४६॥ भ्यामत्यन्तविलक्षणोऽन्योऽन्यानुवेधेन जात्यन्तररूपो भेदाभेदस्ततो नोभयपक्षभाविदोपसंभव इति स्थितम् । एतेन यदपि महतीमास्थामालम्ब्य परैरुच्यते-“यथा स्निग्धत्वोष्णत्वयोः केवलखरूपयोः पृथक् पृथक् कफपित्तकारित्वात् मापे तयोरन्योऽन्यानुवेधेन जात्यन्तररूपत्वेऽपि न खखदोषकर्तृत्वनिवृत्तिः, तथाऽदर्शनात्, तद्वदिहापि भेदाभेदयोरन्योऽन्यानुवेधतो जात्यन्तररूपत्वेऽपि नोभयदोपनिवृत्तिः, उक्तं च-"प्रत्येकं यन्निदानं यत्, खतो मिश्रं तदा त्मकम् । किं न दृष्टं यथा माषः, स्निग्धोष्णः कफपित्तकृद् ? ॥१॥” इति तदपाकृतमवसेयम् , माषे स्निग्धत्वोष्णत्वयोर्जात्यन्तरात्मकत्वाभावात् । अन्योऽन्यानुवेधेन हि स्वभावान्तरभावनिबन्धनं जात्यन्तरात्मकत्वम् , न चात्रान्योऽन्यानुवेधोऽस्ति, तयोः खण्डशो व्यायाऽवस्थानात्, न च वाच्यं कथमेकस्मिन् द्रव्ये परस्परानुवेधमन्तरेण गुणानामवस्थानं घटत इति?, कचित्तथा दर्शनात् , गुजाफलादौ हि परस्परानुवेधमन्तरेणापि रक्तत्वकृष्णत्वादीनां गुणानां देशव्याप्त्याऽवस्थानमुपलभ्यत एव, तथा मापेऽपि अन्योऽन्यानुवेधमन्तरेण देशव्याप्त्या स्निग्धत्वोष्णत्वयोरवस्थान भविष्यतीति न कश्चिद्दोषः । देशभेदावस्थितगुणद्वयाभेदतोऽनेकरूपतापत्तेः द्रव्यस्य कथमेकरूपतेति चेत्, नैष है दोषः, एकान्तेन द्रव्यस्यैकरूपताऽनभ्युपगमात्, समानपरिणामो हि विशिष्टो द्रव्यमित्युच्यते, "तुल्यांशो द्रव्यमिति वचनात्," स चासमानपरिणामाऽविनाभूततया एकानेकखभाव इति । यत्र तु स्निग्धत्वोष्णत्वयोरितरेतरानुवेधतो जात्यन्तरात्मकतोपजायते तत्र प्रत्येकावस्थासंभविदोषाभाव एव, यथा दाडिमे, “स्निग्धोष्णं दाडिम का॥१४६॥ Join Education inte For Private 3 Personal Use Only R mjainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy