SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ वृद्धिःप्रसज्येत, खखभावानपगमात्। स्यादेतत्-नैवेदं जात्यन्तरं, किं तर्हि ?, माधुर्येण कटुकत्वोत्कर्षहानिराधीयते. कटुकत्वेन च माधुर्योत्कर्षहानिरतस्तत्र पित्तादिदोषाभाव इति, तदप्ययुक्तम् , उभयोर्मन्दतापत्तावपि तदुपभोगान्मन्दपित्तादिदोपसंभवापत्तेः । एतेनेतरेतरप्रवेशतोऽन्यतरैकमाधुर्याद्यभ्युपगमोऽपि निरस्तो द्रष्टव्यः, तत्राप्येकतरदोपापत्तेः, अनुभववाधा चैवं प्रसज्यते, यतोऽनुभूयते तत्राविगानेन माधुर्य कटुत्वं चेति । अथोच्यते-प्रत्येकं गुडसुण्ठिभ्यामन्यैव एकरूपा जातिः गुडसुण्ठिः कफपित्तलक्षणदोषद्वयोपशमनस्वभावा जन्यते, ततो नेदमुभयात्मकं जात्यन्तरमिति। तदुक्तम्-"तन्मूलमन्यदेवेदं, गुडनागरसंज्ञितमिति," तदपि अश्लीलम् , एकान्तेनैकखभावायास्तस्याः कफपित्तलक्षणदोपद्वयोपशमकारित्वायोगात् , सा हि गुडसुण्ठिरेकतरस्मिन् कफोपशमे पित्तोपशमे वा कास्येनोपयुक्ता सती कथमन्यत्रोपयुज्येत?, स्वभावान्तराभावात् । अथेत्थंभूत एव तस्या एकः खभावो येनोभयमुपशमयति तेनायमदोष इति, न, इत्थं चित्रतागर्भस्य खभावस्य सर्वथैकत्वायोगात्, नहि ययैव शक्त्या सा गुडसुण्ठिः पित्तमुपशमयति तयैव कफमपि, पित्तोपशमनिमित्तशक्तेः कफोपशमकारित्वायोगात्, अन्यथाऽतिप्रसङ्गतो वस्तुव्यवस्थाविलोपप्रसङ्गात् , अतस्तत्र खभावनानात्वमवश्यमुररीकर्तव्यं, तचानुभूयमानमाधुर्यकटुकत्वगुणेतरेतरानुवेधनिमित्तम् , अन्यथा माधुर्यकटुत्वयोः स्वखभावानपगमनेन खखकफादिदोषकारितापत्तेः । एवमिहापि द्रव्यपर्याययोः केवलभेदाभेदपक्षा-18 १ स्वस्वभावस्येति खपुस्तके । Jain Education in For Private & Personel Use Only L ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy