________________
Jain Education Int
हृद्यं, श्लेष्मपित्तविरोधि चेति” । ततो माषे स्त्रिग्धत्वोष्णत्वयोरन्योऽन्यानुवेधेन जात्यन्तरात्मकत्वाभावात् कफपित्तदोपकारित्वं न नो व्यभिचारनिबन्धनम् ॥ इत्थं च द्रव्यपर्याययोर्भेदाभेदपक्षे जात्यन्तरात्मके व्यवस्थिते सति यदप्येतत् परैरुच्यते- "ये भेदाभेदमात्रे तु दोषाः संभविनः कथम् । तत्सद्भावेऽपि ते न स्युरिति ब्रूयाद्विचक्षणः १ ॥ १ ॥" तथा एकान्तिकावनन्यत्वाद्भेदाभेदौ तयोर्ध्रुवम् । अन्योऽन्यं वा तयोर्भेदो, नियतो धर्मधर्मिणोः ॥ २ ॥ तयोरपि भवेद्भेदो, यदि येनात्मना तयोः । पर्याया द्रव्यमित्येतत्, यदि भेदस्तदात्मना ॥ ३ ॥ भेद एव तथा च स्यान्नैवैकस्य द्विरूपता । द्रव्यपर्यायरूपाभ्यां न चान्योऽस्तीह कश्चन ॥ ४ ॥ खभावो यन्निमित्तः स्यात्, तयोरेकत्वकल्पना । ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते ॥ ५ ॥ तस्याभेदोऽपि ताभ्यां चेत्, यदि येनात्मना भवेत् । धर्माधर्मस्तदन्यश्च, यदि भेदस्तदात्मना ॥ ६ ॥ भेद एवाथ तत्रापि, तेभ्योऽन्यत्परिकल्प्यते । तेषामभेदसिद्ध्यर्थ, प्रसङ्गः पूर्ववद्भवेत् ॥७॥ धर्मित्वं तस्य चैवं स्यात्, तत्तन्त्रत्वात्तदन्ययोः । न चैवं गम्यते तत्र, वादोऽयं जाल्मकल्पितः ॥ ८ ॥ इति" । तदप्यत्यन्तं जिनमताऽनभिज्ञतासूचकमेव, प्रकारान्तरेण द्रव्यपर्याययोर्गुडसुण्ठिमाधुर्यकटुकत्वयोरिव भेदाभेदस्य व्यवस्थापनात्, तत्र चोक्तदोषाणां लेशतोऽपि प्रवृत्त्यसंभवादिति । एतेन यदपि "सर्वत्रैव हि जैनद्रव्यपयययोः संख्यासंज्ञालक्षणकार्यभेदाद्भेदो देशकालस्वभावाभेदाच्चाभेद इष्यते, यथा घटस्य रूपादीनां चेति । अत्र हि एको घटो रूपादयो बहव इति संख्याभेदः, घटो रूपादय इति च संज्ञाभेदः, अनुवृत्तिलक्षणं द्रव्यं नित्यं च,
For Private & Personal Use Only
www.jainelibrary.org