________________
संग्रहणिः
व्यावृत्तिलक्षणाः पर्यायाः क्षणिकाः कियत्कालावस्थायिनश्चेति लक्षणभेदः, घटेनोदकाहरणं क्रियते रूपादिभिस्तु ॥१४७॥
वस्तुराग इति कार्यभेदः, तदेवं द्रव्यपर्याययोः संख्यादिभिर्भदो देशादिभिस्त्वभेद इत्याद्याशय-तदयुक्तं, यदि हि खभावतो न भेदो धर्मधर्मिणोः संख्यादिभेदादपि नैव भेदः, ते हि पररूपाः संख्यादयो भिद्यमाना अपि नात्मभूतमभेदं वाधितुं समर्था" इत्याधुक्तम् , तदपि तत्त्वतः पलालप्रायम् , खभावतोऽपि भेदाभेदस्य व्यवस्थापितत्वात् । तथाहि-द्रव्यपर्याययोर्दाडिमगतस्निग्धत्वोष्णत्वयोरिव परस्परानुवेध इष्यते, अन्योऽन्यानुवेधश्च भेदाभेदे सति भवति नान्यथा, यतोऽन्योऽन्यशब्देन परस्परं भेद आक्षिप्यते, अनुवेधशब्देन चाभेदः, तदाह-"अन्योऽन्य|मिति यद्भेदं, व्याप्तिश्चाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योऽन्यव्याप्तिसंभव ॥१॥” इति ॥ एवं च सति कथमे| कान्तिकखभावभेदाभेदनिबन्धनो दोपोऽस्माकमुपढौकत इति । देशकालमात्रापेक्षया त्वभेदोऽनभ्युपगमादेव न नः क्षितिमावहति ।योऽपि संख्यादिभेदा दः सोऽपि कथंचित् खभावभेदनिवन्धन एव, ततो “नहि पररूपाः संख्यादयो । भिद्यमाना अप्यात्मभूतमभेदं बाधितुं समर्था" इति यदुक्तं तत् प्लवत एव । यत्पुनरुच्यते-"संख्याभेदस्तावदसमर्थ
एवैकस्मिन्नपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् , यथा गुरव इति," तदपि न मनोहरम् , अनेकपर्यायोपनिपातलक्षहैणनिमित्तापेक्षया बहुवचनस्याप्युपपद्यमानत्वात् । न च वाच्यमेवं सति न कदाचिदपि गुरुरित्येकवचनं स्यादिति, जयतो द्रव्यपर्यायात्मकं वस्तु, देशकालपुरुषाद्यपेक्षया चोद्भूतानुभूतं द्रव्यादिकं, ततो यदा उपसर्जनीभूतद्रव्यं प्रधानी
॥१४७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org