________________
Jain Education In
कृतपर्यायोपनिपातं च वस्तु शब्देन च वक्तुमिष्यते तदा तद्वाचकस्य शब्दस्य बहुवचनं पर्यायाणां बहुत्वात् यदा तूपसर्जनीकृतपर्यायोपनिपातं प्रधानीकृततुल्यांशं च तदेव वस्तु वक्तुमिष्यते तदा एकवचनं, तुल्यांशस्य कथंचि - देकत्वात् । अत एव च एकवचनकाले बहुवचनकाले वा द्रव्यपर्यायोभयरूपं वस्तु सकलमविगानेन प्रतीयते । एवं च सति "संभविधम्मिरूपमात्राभिधेयत्वेन विवक्षितमत एकवचन" मिति चेदित्याशङ्कय यदुक्तं परेण - "न, तस्यैकत्वेन विवक्षायां कार्त्स्यगौरवयोरप्रतीतिप्रसङ्गात् उभयरूपस्य वस्तुनो गुरुशब्दवाच्यत्वात् कथं संभविनो धर्मरूपस्यैकत्वेन विवक्षेति" तत् दूरापास्तप्रसरं द्रष्टव्यम्, तथानभ्युपगमादिति । यदा तूभयोरपि उद्भूतत्वं विवक्ष्यते तदा द्वयोरपि द्रव्यपर्यायवाचकयोः शब्दयोः यथाक्रममेकवचनबहुवचने भेदः, यथा - घटस्य रूपादय इति । अनेनैव च क्रमेण व्रीह्मादिषु शब्देषु समानासमानपरिणामप्रधानोपसर्जन भावविवक्षायामेकवचनबहुवचने द्रष्टव्ये, यथा - " त्रीहिरेकोऽपि संपन्नः सुभिक्षं करोतीत्यादि" । तथा च सति यदुक्तं – “श्रीहय इति जातिवचने धर्मिणो रूपादीनां चानभिधानान्न किंचिदुत्तरमिति" तदपि वालिशजल्पितं, सर्वथा वस्तुगत्यनवगमात् अत्रोपसर्जनीकृतसमानपरिणाम स्यानेकात्मकस्यासमानपरिणामस्याभिधानादिति । यदपि संज्ञाभेदाद्भेदं दूषयता अभिहितं - " संज्ञापि संकेतनिबन्धना संकेतश्चेच्छायत्तवृत्तिरिति कुतस्ततोऽर्थभेद इति” तदपि न शोभनम्, शब्दार्थयोः संबन्धस्य वास्तवत्वात्, तथाहि-- यदि शब्दार्थयोः संबन्धः सांकेतिक इष्यते तर्हि येन शब्देनायमित्यादिना तस्य
For Private & Personal Use Only
www.jainelibrary.org