________________
धर्म
॥१४८॥
Jain Education In
शब्दस्य संकेतः क्रियते तेन किं संकेतितेन असंकेतितेन वेति वक्तव्यं ?, यदि संकेतितेन तर्हि तस्यापि येन शब्देन संकेतः कृतो विद्यते तेनापि संकेतितेन असंकेतितेन वेत्यादि तदेवावर्तत इत्यनवस्था, अथासंकेतितेन तर्हि सिद्धः शब्दार्थयोः संबन्धो वास्तवः, असंकेतितादपि तस्मात् शब्दात् विवक्षितवाच्यप्रतीतेः । अथोच्येत यादृशो बाह्योऽर्थो घटादिः प्रत्यक्षे ज्ञाने प्रतिभासते न तथा शब्दोत्थे, तत्कथमनयोः शब्दार्थयोः वास्तवः संबन्धः इति ?, तदप्ययुक्तम्, शब्दादपि तादृशस्यैव वाह्यस्यार्थस्य प्रतीतेः, तथाहि - अपवरकमध्यस्थितात् स्थालात् अधोहरितमुपरि पीतमतिरमणीयं सुरभिगन्धं महदाम्रफलमानयेत्युक्तः सन् तदन्याम्नफलमध्यात्तदेवानयति नान्यदिति, न च शब्दस्यास्पष्टः प्रतिभासो भिन्नविषयतानिबन्धनम्, एकस्मिन्नपि नीलादिवस्तुनि समीपविप्रकृष्टदेशवर्त्तिनोः पुंसोः स्पष्टास्पष्टप्रतिभासयोरुपलभ्यमानत्वात् । न च वाच्यं शब्दार्थयोः संबन्धस्य वास्तवत्वे सति प्रधानादिशब्दानामपि तात्त्विकविषयताप्रसक्तिः, तेषां मिथ्याभाषावर्गणोपादानत्वेनालीकार्थानामेवाभ्युपगमात्, एवमतीतानागतयोरपि वर्त्तमानत्वेन वाचकानां शब्दानामलीकार्थता द्रष्टव्या ये त्वतीतानागतयोरप्यतीतानागतत्वेन वाचकाः शब्दास्ते तद्विषये सार्वज्ञज्ञानमिव सत्यार्थी एव, एतच प्रागेवोक्तम् । एतेन यदप्युच्यते - "इन्द्रियज्ञाननिर्मासि, वस्तुरूपं हि गोचरः शब्दानां नैव तत् केन, संज्ञाभेदाद्विभिन्नता ? ॥१॥" | "परमार्थैकतानत्वे" इत्यादिवचनात् । तथा-" शब्देनाव्यापृताक्षस्य, बुद्धावप्रतिभासनात् । अर्थस्य दृष्टाविव तत्, शब्दाः कल्पितगोचराः ॥ १ ॥ कल्पितस्यैव तद्भेदः, संज्ञाभेदा
1
For Private & Personal Use Only
संग्रहणिः.
॥१४८॥
www.jainelibrary.org