________________
ACCU
भवेद्यदि ॥२॥" तथा "अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः। शब्दात्प्रत्येति भिन्नाक्षो, नतु प्रत्यक्षमीक्षते ॥३॥ इत्यादि" तदपि प्रत्युक्तमवसेयम् , यथोक्तभावार्थशून्यत्वात् । यदपि चोच्यते-एकस्मिन्नपि च संज्ञाभेदो दृश्यते, यथाइन्द्रः शक्रः पुरंदर इति, तत्कथमस्य भेदनिमित्ततेति । तदपि कवलितनिविडजडिमोद्गाररूपं, शक्रादिशब्दानामपि खस्खभिन्नप्रवृत्तिनिमित्तभावात् , तथाहि-इन्दनात् इन्द्रः, शकनात् शक्रः, पूर्दारणात् पुरंदर इति । शक्तिशक्तिमतोश्च कथंचिदभेदात् शक्रादिशब्दैः शकनादिशक्तिविशिष्टं समस्तमेव वस्तु प्रतीयते, नतु खखप्रवृत्तिनिमित्तभूत६ शकनादिशक्तिमात्रम् , ततः शक्रादिशब्दैस्तद्वाचिनां सामानाधिकरण्यमप्युपपद्यत एव । न च वाच्यमेवमपि एकस्मिन् धर्मिरूपे शक्रादिशब्दानां प्रवृत्त्यभ्युपगमात् न संज्ञाभेदो विषयभेदप्रतीतिनिमित्तमिति, तस्यापि कथंचि-IN दनेकखभावतया सर्वथैकत्वासिद्धेः। एवं च सति अत्रापि इन्दनात् शकनात् पूर्दारणात् शक्तिभेदो गम्यत इति चेदित्याशङ्कय यदेतदभिहितं-"न,समस्तस्यैव कार्यकर्तृत्वात् , न हि शक्तिरेवेन्दति शक्नोति विदारयति च, किं| तर्हि ?, धर्मिरूपमपि, तयोरेकखभावतोपगमात्, शक्नोत्यादिपदैस्तद्वाचिनां सामानाधिकरण्यदर्शनाच्च । न चास्खलदृत्तिप्रत्ययविषयत्वादुपचारकल्पनेति" । तदपीह निरवकाशमवसेयम्, शकनादिशक्तिविशिष्टस्य धर्मिरूपस्य कथंचिदनेकखरूपस्य शकनादिशक्तिनिमित्तकैः शक्रादिशब्दैर्वाच्यत्वेनाभ्युपगमात्, उपचारस्य चानाश्रयणादिति । यः पुनरत्र लक्षणभेदोऽभिहितोऽनुवृत्तिलक्षणं द्रव्यमित्यादिरूपः सोऽभ्युपगम्यत एव, न बभ्युपगमा एवं बाधायैव भव
SRONOCOCOCCOCOCAUSERONE
Jain Education in
For Private & Personel Use Only
Mirww.jainelibrary.org