SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ न्तीति । यत्पुनरुच्यते-"लक्षणभेदो भेदं प्रति अहेतुरसिद्धत्वात्, न ह्येको भावः कचिदन्वयी सिद्धः, अथ न कूट- संग्रहणिः ॥१४॥ स्थिनियतया नियं द्रव्यमार्हतैरिष्यते, परिणामनित्यतोपगमात्, सा च पूर्वोत्तरक्षणप्रवन्धवृत्त्या, न यस्य पर्यायाभणामिवोच्छेदः, पर्याया एव हि पर्यायरूपेण निरुध्यन्ते न तु द्रव्यमिति, तदप्ययुक्तम् , अस्या अपि नित्यताया द्रव्ये असंभवात् , पर्यायव्यतिरिक्तस्य द्रव्यस्यैवासिद्धेः, तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकेनानुपलक्षणादिति” । तदसमीचीनम् , पर्यायव्यतिरिक्तस्य द्रव्यस्यानुपलक्षणासिद्धेः । तथाहि-अन्वयिरूपमिह द्रव्यमुच्यते, तच्चान्वयिरूपं मृल्ल क्षणं प्रत्यक्षत एव सकलमृत्पिण्डशिवकस्थासकोशकुशूलघटकपालादिरूपाखवस्थाखनुभूयते, न च वाच्यमन्यैव मृत्पिकण्डादिरूपा मृत् आसीत् , अन्यैव चेयमुपलभ्यमाना घटादिमृदिति, सतः सर्वथाविनाशायोगात्, तथादर्शनाभावात्। न च प्रदीपादिना व्यभिचारस्तत्रापि तमःप्रभृतिविकारदर्शनात् , तथा अत्यन्तासत उत्पादायोगात् , खरविषाणस्याप्युत्पत्तिप्रसङ्गात् । अथोच्येत विवक्षितं कारणं विवक्षितकार्यजननखभावमेव न तु खरविषाणजननखभावमपि, तत्कथं तस्याप्युत्पत्तिप्रसङ्ग इति, तदप्ययुक्तम् , कार्यकाले कारणस्य निरन्वयविनष्टतया तदव्यतिरिक्तस्य तजननखभावेनो-17 भयत्रापि विशेषाभावात् । तन्न पिण्डमृदः सर्वथा अन्यैव घटमृदित्यनुयायिनी मृत्, ततः पर्यायव्यतिरिक्तस्य द्रव्य-18 स्योपलब्धिलक्षणप्राप्तस्यानुपलक्षणमसिद्धमितिस्थितम् । एवं च सति यदवादीत्-“पर्यायेष्वेव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनां न पुनस्तत्त्वतो विलक्षणमुपलक्ष्यते इति" तत्तस्यैव मन्दमतितासूचकम् , उक्तवत्तदनुपल ACCOCCAMERCESSOCIROO RRRRR550%AR ॥१४॥ Jain Education Intematon For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy