________________
म्भासिद्धेः । योऽपि च प्राक्कार्यभेदो दर्शितो, यथा-“घटेनोदकाहरणं क्रियते रूपादिभिस्तु वस्तुराग इति" सोऽपि |
परसिद्धान्तात्यन्तानभिज्ञतासूचको, न ह्येवमार्हतैर्द्रव्यपर्याययोः कार्यभेदोऽभ्युपगम्यते, घटस्य उत्कलितरूपादिगुणानां सच तत्परमाणूनां प्रत्येक द्रव्यपर्यायस्वभावतया उभयरूपस्यैव वस्तुनः उदकाहरणवस्तुरागादिक्रियासु प्रवृत्तेः, किंतु
संवेदनादिलक्षणः, स च प्रतिप्राण्यनुभवसिद्धत्वादप्रतिक्षेपार्हः, तथाहि-देशान्तरे कालान्तरे नरान्तरे अवस्थान्तरे च मृत्पिण्डशिवकस्थासकोशकुशूलघटकपालादिष्वविशेषेण सर्वत्रानुवृत्तस्य मृदन्वयस्य संवेदनमनुभूयते, प्रतिभेदव्यवस्थितपर्यायव्यावृत्तिसंवेदनं च । न चेदमसिद्धं, यतो न यथाप्रतिभासं मृत्पिण्डसंवेदनं तथाप्रतिभासमेव शिवकसंवेदनम् , आकारभेदानुभवात् । न च यथाप्रतिभासभेदमेव तद्विजातीयेषु दहनपवनवनस्पत्यादिषु तथाप्रतिभासभेदमेव मृत्पिण्डशिवकादिपु, मृद्रूपान्वयानुभवादिति कृतं प्रसङ्गेन । तदेवं जात्यन्तरात्मकभेदाभेदपक्षः सकलदोपविनिर्मुक्तत्वात्सद्वादो न केवलभेदाभेदवादाविति स्थितम् ॥ ३४१॥ अत्र परश्चचोदयिपुरिदमाह
धम्मम्मि नियत्तते जइ णो दवं नियत्तई भेओ।
अह उ णियत्तइ एवं तओ अभेउत्ति कहमुभयं ? ॥ ३४२ ॥ ननु पर्यायनिवृत्तौ द्रव्यं निवर्त्तते न वा ?, तत्र यदि धर्म-पर्याये निवर्तमाने द्रव्यं न निवर्त्तते इति पक्षस्तर्हि
AMACHCRECARDAS+CCESSAGE
Jain Education in
For Private & Personel Use Only
O
ww.jainelibrary.org