SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ततो-भिन्नसंतानान्तरवर्तिनः क्षणादस्य कार्यक्षणस्य को वा विशेषो ? यन्निवन्धन इह पूर्वोक्तो व्यवहारः सर्वोऽपि प्रवर्तते, नेतरत्र, नैव कश्चिद्विशेष इति भावः ॥ २३८ ॥ परो विशेषमुघट्टयति अस्थि विसेसो हेतुफलभावतो विरहओ य तस्सेव । एगंतखणियपक्खे णियमेण ततोऽवि हु ण जुत्तो ॥ २३९ ॥ अस्ति विशेषो भिन्नसंतानान्तरवर्तिनःक्षणादस्य कार्यक्षणस्य, कुत इत्याह-हेतुफलभावतः' उपादानोपादेयभावे. नावधिक्षणेन सह विवक्षितकार्यकारणभावतः, तथा 'तस्यैव' हेतुफलभावस्य विरहतश्च-अभावतश्च, अवधिक्षणेन सह भिन्नसंतानान्तरवर्तिनः क्षणस्य । अत्र दूषणमाह-एगते'त्यादि, एकान्तक्षणिकपक्षे 'सकोऽपि' कार्यकारणभावो नियमेन न युक्तः॥ २३९ ॥ कथं न युक्त इति तामेवायुक्ततां दर्शयति कह कारणं निरन्नयण; कज्जस्स साहगं होति ?। ___णाभावातो भावो जायति पुत्विंव होजा तु ॥ २४० ॥ एकान्तक्षणिकपक्षे हि कारणं सर्वथा विनिवर्तते, तञ्च निरन्वयनष्टं कथं कार्यस्य साधकं भवति ?, नैव भवतीति | भावः । यस्मानाभावतः सकाशाद्भावो जायते, यदि जायेत ततः पूर्वमपि भवेत् ?, तदभावस्य प्रागपि विद्यमानत्वात् । Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy