SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः ॥११॥ दोषास्ते सर्वेऽपि प्रसज्यन्ते । अथ संतानिभ्यः संतानो नान्य इष्यते, तर्हि संतानिन एव संतानस्तदव्यतिरिक्तत्वात्तत्वरूपवत्, तथा च सति तदवस्थ एव पूर्ववत् व्यवहारविलोपप्रसङ्गः ॥२३५-२३६॥ अत्र पराभिप्रायमाशङ्कमान आह अह संताणो णेओ ज इह विसिट्रो उ हेउफलभावो। तत्तो सो ववहारो णो णाणत्ताविसेसातो ॥ २३७ ॥ अथ मन्येथाः-न पूर्वापरक्षणप्रवाहमात्रं संतानो नापि तद्यतिरिक्तः कश्चिद्वस्त्वन्तरभूतः, किंतु य एवेह पूर्वोत्तरक्षणानां विशिष्ट उपादानोपादेयभावेन हेतुफलभावः स एव संतानो ज्ञेयः, तस्माच सोऽनन्तरोदितः सर्वोऽपि व्यवहार इत्यदोषः। एतत्प्रतिषेधयति-यदेतदुक्तं तन्न, कुत इत्याह-नानात्वाविशेषात् ॥ २३७ ॥ एनमेव व्याचष्टे ___ अवहिखणातो संताणंतरवत्ती जहा खणो भिन्नो। कजक्खणोऽवि एवं तत्तो को वा विसेसो तु ? ॥ २३८ ॥ ___'अवधिक्षणात्' विवक्षितैकतमकारणक्षणात् यथा संतानान्तरवर्ती क्षणो भिन्न एव, तथा कार्यक्षणोऽपि भिन्न एव, सर्वथा कार्ये कारणधर्मानुगमाभावात् , ततो यथा देवदत्तजिनदत्तयोरत्यन्तभिन्नत्वादेककर्तकस्मरणादिको व्यवहारो न संगतिमश्नुते, तथा विवक्षितेष्वपि पूर्वोत्तरक्षणेषु । अत्र परं निरुत्तरीकत्तु पृच्छति-तत्तो को वा विसेसो उ?' ॥१११॥ Jain Education Interational For Private & Personel Use Only W w w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy