________________
दृष्टिरागं मुक्त्वा 'बुधः' पण्डितः सम्यगेवमालोचयेत् 'एतं' क्षणिकपक्षं, किमयमसंगतो नवेति ?, सकलव्यवहारविलोपप्रसङ्गादतीवासंगत एवेतिभावः ॥ २३४ ॥ पराभिप्रायमाशङ्कते
संताणातो अह सो ववहारो सव्व एव जुत्तो तु। सो संताणीहिंतो अन्नोऽणन्नोत्ति वत्तवं ॥ २३५ ॥ जइ अन्नो किं णिच्चो किंवा खणियोत्ति?. णिचपक्खम्मि।
होइ पतिन्नाहाणी इतरम्मि उ पुवदोसा तु ॥ २३६ ॥ अथ 'सः' अनन्तरोक्त ऐहिकामुष्मिकरूपो व्यवहारः सर्वोऽपि 'संतानात्' भूतभवद्भविष्यत्क्षणप्रवाहरूपात् युक्त एव । तुशब्द एवकारार्थः । तथा चामुष्मिकं व्यवहारमाश्रियोक्तम्- "यस्मिन्नेव हि संताने, आहिता कर्मवासना। फलं तत्रैव संताने, कपासे रक्तता यथे ॥१॥ति" ॥ तदयुक्तम् , विकल्पानुपपत्तेः, तथाहि-'सो' इत्यादि सार्द्धगाथा, 'स' संतानः संतानिभ्यः सकाशादन्यो वा स्यादनन्यो वेति वक्तव्यम् । तत्र यद्यन्यस्तर्हि तत्रापि विकल्पयुगलमुपढौकते, स किं नित्यो वा स्यात् किंवा क्षणिक इति ? । तत्र यद्याद्यः पक्षस्तदयुक्तम् , "क्षणिकाः सर्वसंस्कारा" इति प्रतिज्ञाव्याघातप्रसङ्गात्। अथोत्तरः पक्षस्तदप्ययुक्तम् ,यत आह-'इतरस्मिन् क्षणिकपक्षेऽङ्गीक्रियमाणे ये पूर्वमभिहिता
मोड पतिन्नाहाणी इतरानाsपि संतानात्' भूतमान, आहिता कर्मवासना
HASASARAOKGACASSASSAUR
Jain Education Internal
For Private & Personel Use Only
PR
w w.jainelibrary.org