SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥११२॥ अथोच्येत-न यतः कुतश्चिदभावादयं भाव उपजायते, किंतु विशिष्टात् , स च विशिष्टः कारणस्य प्रध्वंसाभावो न प्रागभाव इति न पूर्वमपि भावस्य भावप्रसङ्गः ॥ २४० ॥ अत्राह निरुवक्खत्ता ण य इह वइसिटुं जुज्जते अभावस्स । कारणपुव्वत्तम्मि य कज्जस्स उ अन्नयपसिद्धी ॥ २४१॥ 'इह' विचारप्रक्रमे 'सर्वथा निरुपाख्यत्वात' सर्वोपाख्याविकलत्वात् अभावस्य वैशिष्ट्यं न युज्यते, सकलशक्तिशन्यतया कर्मत्वशत्ययोगेन केनचिदपि विशेषयितुमशक्यत्वात् , विशेषणेन च विशिष्यमाणो विशिष्टो भवति, ततोऽभावस्य वैशिष्टयाभावात् यदि ततो भावो जायेत ततः पूर्वमपि जायेत । अथैतद्दोपभयान्नाभावाद्भावस्योत्पत्तिरिष्यते, किं तर्हि ?, कारणादेव । तत आह-कारणपूर्वकत्वे च कार्यस्येष्यमाणेऽन्वयप्रसिद्धिः-अन्वयस्य प्रसङ्गः, कारणभावाविच्छेदेन कार्यस्य भावाभ्युपगमात् ,भावाविच्छेदश्चान्वयः। नन्वन्य एव कारणभावोऽन्यश्च कार्यभावस्तत्कथमिह भावाविच्छेदेऽपि अन्वयापत्तिरिति चेत्, न, तत्त्वतो भेदकाभावत एकान्तेनान्यत्वाभावात् । क्षणी हि पूर्वापरौ तद्विशेष-10 णतया भेदको स्यातां, तौ च विवक्षितपूर्वापरभावव्यतिरेकेण नान्यावभ्युपगम्येते, तयोरक्षणिकत्वप्रसङ्गात् , तदपरक्षणाभावात् , भावे चानवस्थाप्रसङ्गात् , मा भूद्वा अनवस्थाप्रसङ्गस्तथापि न तयोः क्षणयोर्भेदकत्वमेव, उभयोरपि ॥११२।। Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy