________________
-ल.
भावयोर्भावरूपताया अविशेषात् । आकारादिभेदात् विशेषसिद्धिरिति चेत्, न, आकारादिभेदवत् अविशेषेण भावरूपताया अपि प्रतीयमानत्वात् । ननु चाधिकृतघटजन्यकपालवत् घटान्तरजन्यकपालेऽपि मृत्त्वादिलक्षणा भाव-13॥ रूपता अविशेषेण प्रतीयते, न च तत्रान्वयः, तथानभ्युपगमात् , तद्वदधिकृतघटजन्यकपालेऽपि न भविष्यतीति, उच्यते, न भावरूपता केवलैवान्वयसिद्धिनिबन्धनं किंतु तद्पशक्तिगन्धपरिमाणादिसंगता तत्तथाभावाध्यवसायहेतुः,
न चासावेवंविधा भावरूपता घटान्तरजन्यकपालेऽपि प्रतीयते, न च तद्वदधिकृतघटजन्यकपालेऽपि नानुभूयते, ४ इत्यन्वयसिद्धिरव्याहतैव ॥ २४१॥ अत्र पराभिप्रायमाशङ्कते
कारणविणासकजुप्पादा जुगवं तु होति णातवा ।
तो णत्थि भणियदोसा तुलाएँ णामावणामव ॥ २४२ ॥ तुलाया नामोन्नामाविव युगपत्कारणविनाशकार्योत्पादौ ज्ञातव्यो, 'तो' तस्मात्पूर्वक्षण एव कारणस्य निरन्वयविनाशाद अभावात् कार्यस्याभावप्रसङ्ग इत्यादयोऽभिहिता दोषास्ते सर्वेऽपीह न सन्ति, निरवकाशत्वात्, तथाहि-यस्मिन्नेव साक्षणे कारणं विनश्यति तस्मिन्नेव क्षणे कार्योत्पादश्च, ततो नाभावात् भावप्रसङ्गः, कारणात् कार्यस्य भावात् । ना
प्यन्वयापत्तिः, कारणस्य निरन्वयविनाशादिति ॥ २४२ ॥ अत्राह
Jain Education Intel
For Private & Personel Use Only
BMw.jainelibrary.org