________________
धर्म
संग्रहणि
॥१३२॥
कानुभवत्वानुभवाभावादितियावत् । अत्र परस्थावकाशमाह-सरिसेत्यादि' अयंप्रत्ययाधिष्ठानतया सशस्यापरस्यापरस्य संवेदनलक्षणस्योत्पत्त्या विप्रलम्भाद्-विपर्यासाहीधैकरूपतयाऽनुभवनम् , तस्मान्नतु-नैव इदं स्थितेः प्रदीर्धेकानुभवरूपत्वं तथ्यं-सत्यमिति ॥ ३०४॥ अत्राह
एवंऽपणुहववाहा अदिटुपरिगप्पणा य नियमेण ।
वितहत्ते य इमीए सवं चिय पावई वितहं ॥ ३०५ ॥ ___ 'एवमपि' अस्यामपि कल्पनायां क्रियमाणायामनुभवबाधाऽदृष्टपरिकल्पना च नियमेन-अवश्यंतया प्राप्नोति । तथाहि-प्रतिप्राणि संवेद्यते स्थितेः प्रदीर्घानुसंधानरूपोऽनुभव इति, तदपलापिनोऽनुभवबाधा, प्रतिक्षणमखिलसजातीयविजातीयव्यावृत्तोऽपरोऽपरो वोधक्षण उत्पद्यत इति अदृष्टपरिकल्पनेति । अत्रैव दूपणान्तरमाह-वितहत्ते
य इत्यादि' अस्याः-प्रदीर्धकानुभवखरूपायाः स्थितेर्वितथात्वे, चेति दूषणान्तराभ्युच्चये, 'सर्वमेव प्रमाणप्रमेयरूपं ४. वस्तु वितथं प्राप्नोति ॥ ३०५ ॥ कुत इत्याह
खणिगं वत्थु अविगप्पगं च णाणंति एवमादीयं । जम्हा इमीएँ सिद्धं विचारणा जं न अन्नेण ॥ ३०६ ॥
10CROCOCONOCOCALCROSORROCOCROCESC
॥१३॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org