SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ G ॥ ७२ ॥ Jain Education से केणट्टे णं भंते! एवं वुच्चइ १, गोयमा ! दचट्टयाए सासए भावट्टयाए असासए" इत्यादिनाऽभिहितस्य नित्यानि - त्यत्वस्य स्मरणाद्यन्यथानुपपत्त्या अवस्थाभेदान्यथानुपपत्त्या च ज्ञायमानत्वेनानुमेयतयाभिमतस्य तथैव ग्रहणम् । परस्पराव्याघातोऽपीह स्फुटोऽस्त्येव, यथा- जीवस्य बन्धमोक्षावभिधाय नित्यानित्यत्वाभिधानम्, एकान्तनित्यपक्षे अनित्यपक्षे च तयोः सर्वथानुपपद्यमानत्वात्, यथा चानुपपद्यमानत्वं तथोत्तरत्र खयमेवाचार्येण दर्शयिष्यते । तदेवमविसंवाददर्शनादिदमार्हतं वचस्तावत्प्रमाणमेव । तथा च वक्ष्यति — "दिद्वेणं इट्टेण य जम्मि विरोहो न हुज्ज उ कहिंचि । सो आगमोत्ति” । यत्पुनरेतत् " पृथिव्यप्तेजोवायुरिति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा” इति, तदप्रमाणम्, जीवसत्त्वाभ्युपगममन्तरेण पृथिव्यादिष्वेव भूतेषु जीवद्देवदत्तादिशरीरघटादिलक्षणेषु दृष्टस्य सचेतनाचेतनत्वरूपस्य वैचित्र्यस्य सर्वथानुपपद्यमानत्वात् तथैव प्राक् सप्रपञ्चं दर्शितत्वात् । एवं च " विज्ञानघन एवै - तेभ्यो भूतेभ्य" इत्याद्यपि यथाभिप्रायमुपन्यस्तमप्रमाणमवगन्तव्यम्, यथा च पुनरेतदपि वचो विमलमतयो व्याख्यानयन्ति तथा प्रमाणमेव, तथा व्याख्याने दृष्टस्य सचेतनाचेतनत्वलक्षणस्य वैचित्र्यस्य जातिस्मरणादेश्चोपपद्यमानत्वात् । तच्च व्याख्यानमिदम् -- ज्ञानदर्शनोपयोगलक्षणविज्ञानानन्यत्वाद्विज्ञानघनः, यद्वा प्रतिप्रदेश मनन्ताअनन्तविज्ञानपर्यायघटितत्वात् विज्ञानघन आत्मा, एतेभ्यो भूतेभ्यो घटादिरूपेभ्यो ज्ञेयेभ्यः सहकारिभ्यः समुत्थाय | समुत्पद्य घटविज्ञानादिभावेन, पुनस्तान्येव भूतानि घटादीनि विज्ञेयभावेन विनश्यन्ति सन्ति अनु प्रतीत्य तद्वि For Private & Personal Use Only संग्रहणिः, ।। ७२ ।। www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy