________________
ARMERCISCERAKAR
ज्ञानभावेन विनश्यति, तस्यार्थान्तरे उपयुक्तत्वात् , 'न प्रेत्य संज्ञास्तीति' न प्रेत्य-न प्राक्तनी घटविज्ञानादिरूपासंज्ञा तदाऽवतिष्ठते इति । अपरोऽर्थः-विज्ञानघन आत्मा, एतेभ्यो भूतेभ्यः समुत्थाय-समुत्पद्य पुनस्तान्येव विनश्यन्ति । सन्ति अनु-प्रतीत्य विनश्यति, यथा भौतिकपुरुषवादिभिरुच्यते इति, एतन्न, यस्मात्प्रेत्यसंज्ञाऽस्ति-प्रेत्यभावोऽस्ति, य एवायं प्रेत्य-परलोके देवो नारको वाऽभवत् स एवाधुना मनुष्यः संवृत्त इति प्रेत्यव्यवहारोऽस्तीतियावत् । तस्मादागमतोऽपि जीवः सिद्ध इति स्थितम् ॥ १३३ ॥ तदेवं प्रमाणतो जीवस्य सिद्धिमुपपाद्य सांप्रतं यद्यदाशङ्कय परेण | प्रतिक्षिप्तं तत्तत्समर्थयन्नाह
जो पडिसेहेइ तथा स एव जीवोत्ति जुत्तमेयंपि ।
भूतेहिं चेतन्नं अण्णनिमित्तं जओ ठवियं ॥ १३४ ॥ ___ यः प्रतिषेधति जीवं स एव जीव इति यत् प्राक् आशङ्कितं, तदपि युक्तमेव, जीवमन्तरेणान्यस्याचेतनत्वेन प्रतिषेधकत्वायोगात् । तदेवाचेतनत्वमन्यस्य समर्थयते-भूएहिं इत्यादि' यतो-यस्माद्भुतेभ्यः-पृथिव्यादिभ्योऽन्यो यो जीवस्तन्निमित्तं चैतन्यं प्राक् स्थापितं-व्यवस्थापितं तत्कथं भूतानामात्मप्रतिषेधकत्वं स्यात् ? अचेतनत्वात् , यदन्यनिमित्तं च चैतन्यं प्राकू व्यवस्थापितं स सामर्थ्यादात्मैव, एतस्यैवानुरूपतया चैतन्यं प्रति धर्मित्वाद्युपपत्तेः ।
Jain Education Inted
For Private & Personel Use Only
T
ww.jainelibrary.org