________________
धर्म
सच परिणामित्वात् सुरनारकादिपरिणामरूपेण परिणमते, सुरनारकादिभावश्च परलोकशब्दवाच्यो, यद्वक्ष्यति- संग्रहणिः सुरभावो होइ परलोगों' इति । तत आत्मा परलोक्यपि सिद्धः, तथा च सति यदभिहितं प्राक् 'नत्थि परलोगगामी जं भणिमोत्ति' तन्महामोहविजृम्भितमित्युपेक्षणीयम् ॥१३४॥ अधुना यथा आत्मनः सुरनारकादिरूपेण परिणमनं रे भवति तथोपपादयन्नाह
संतस्स णत्थि णासो एगंतेणं ण यावि उप्पातो।
अत्थि असंतस्स तओ एसो परलोगगामि व ॥ १३५॥ इह सतो वस्तुन एकान्तेन सर्वथा नैवास्ति विनाशः तदनन्तरमेवाव्यवधानेनोत्पद्यमानकपालादिपदार्थान्तरद-17 र्शनात् । यदि घटकपालयोरन्तरे कोऽपि क्षणो भावरूपताशून्य उपलभ्येत तदा स्यादेवं, यथा घटस्य सर्वथा विनाशः कपालानां चात्यन्तासतामुत्पाद इति, न चैवमुपलभ्यते, तस्मात् घटः कपालरूपेणैव परिणमते नतु सर्वथा
विनश्यतीति निश्चीयते । अथ कथमुच्यते नैव सतः कस्यापि सर्वथा विनाशो ? यावता दीपतडागोदकादीनामनइन्वयोऽपि विनाशो दृष्टः, तत्र तदन्यविकारोपलम्भाभावात् , तद्वदन्येषामपि भविष्यतीति, तदप्ययुक्तम् , तत्रापि निरन्वयविनाशासिद्धेः, ततः प्रभृति विकारोपलम्भात् । दीपाद्धि तमः प्रादुर्भवत् उपलभ्यते, तच तमः पौगलिकं, न तु दीपाभावमात्रं, चक्षुपा गृह्यमाणत्वात् "छायोयोतातपाश्च पौद्गलिका" इति वचनप्रामाण्याच । तथा
ARCHCCCCCRICROCOCCT
॥ ७३
JainEducationire
For Private
Personel Use Only