________________
CCCCCCCCARGACROCESCA15
तडागोदकात् शीतः पवनः, अतस्तत्रापि दीपादेर्भावान्तरभाव एवाभावो न तु सर्वथा विनाशः। प्रमाणबाधितश्चासौ सतः सर्वथाविनाशाभ्युपगमः, तथाहि-यत् यदुपादानं तत्तद्रूपात्मकं, यथा मृदात्मकपिण्डोपादानो घटो मृदात्मकः, भावरूपघटोपादानश्च तद्विनाश इति । उपादानोपादेयभावो हि कार्यस्य कारणधर्मानुगमसंभवेन व्याप्तः, अन्यथाऽतिप्रसङ्गेन तद्यवस्थाऽनुपपत्तेरित्युक्तं प्राक, घटविनाशश्चेत् भावरूपघटोपादान इष्यते ततोऽवश्यं तस्य भावरूपताऽङ्गीकर्तव्या, तथा च सति न तस्य घटस्य सर्वथा विनाश इति स्थितम् । 'न चावि उप्पाओ। अत्थि असंतस्सेति' न चाप्येकान्तेनासतः-अविद्यमानस्योत्पादः, एकान्तेनासतस्तुच्छरूपतया तद्भवनशक्त्ययोगात्, अन्यथैकान्तेनासत्त्वायोगात्, तथापि चेत्तस्य सत्त्वरूपतया भवनमिष्यते तर्हि अतिप्रसङ्गः, खरविषाणस्याप्युत्पत्तिप्रसक्तेः, तद्भवनशक्त्यभावाविशेषात् । अपि चैवमभ्युपगमे सति विवक्षितभावोत्पादोऽसदुपादानोऽभ्युपगतः स्यात् , तथा |च सति तस्यासत्त्वापत्तिरेव, कूर्मरोमभ्य इवोपजायमानाया रजोः, अन्यथा कार्यस्य कारणधर्मानुगमसंभवाभावप्रसङ्गेन कार्यकारणव्यवस्थाविलोपप्रसङ्गात् , अतः स्थितमेतत्-नात्यन्तासत उत्पाद इति । 'तओ एसो परलोगगामित्ति' 'ततः' तस्मात्सतः सर्वथा विनाशाभावादत्सन्तासत उत्पादाभावाच 'एष' आत्मा परलोकगामी परलोकसुरत्वादिपर्यायस्तं गामी परलोकगामी परिणामित्वात् ॥ १३५ ॥ एतदेव भावयति
बालाइपजवातो जुवादि जह होइ पज्जवो इहयं ।
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org