________________
धर्म
॥१३४॥
Jain Education Int
वयवादिपरिग्रहः तद्विषया-तगोचरा जायते सा अतथ्या । कुत इत्याह- 'तस्य' ध्रुवादेरयुक्तितः - अघटमानत्वात् ॥ ३१० ॥ आचार्य आह
तस्साऽजुती किं राय - सासणं आउ णिवियप्पेणं ।
अग्गहणं किं वाssलोयणाए तस्सेव तु अभावो ! ॥ ३११ ॥
तस्य-ध्रुवादेरयुक्तिः- अघटमानता किं राजशासनं - राज्ञामाज्ञा क्षणिकमित्येव वस्तु व्यवहर्त्तव्यं न ध्रुवादिकमित्येवंरूपा, उत निर्विकल्पेन - कल्पनापोढेन ज्ञानेन अग्रहणं, किंवा आलोचनया- विचारण्या तस्यैव- ध्रुवादेरभावो योऽधिगम्यते सा अयुक्तिरिति विकल्पत्रयं, गत्यन्तराभावात् ॥ ३११ ॥ तत्राद्यं विकल्पमधिकृत्याह - जइ रायसासणं ता तदन्नणिवसासणेण वभिचारो ।
आणव य निच्चादी भागवयाईवि तहबोहा ॥ ३१२ ॥
यदि राजशासनं - राज्ञामाज्ञा ध्रुवादेरघटमानतोच्येत ततो यत् भावत्कात् राजशासनात् अन्यत् नृपशासनं तेन व्यभिचारः, तथाहि - ध्रुवादिरूपं वस्तु प्रतिपत्तव्यं न क्षणिकमित्येवं तदन्यनृपैः शासने कृतेऽपि न खलु क्षणिकत्वस्याघटमानता भवति, तद्वदिहापि न भविष्यतीति । तदन्यनृपशासनमेव दर्शयति - आज्ञापयति च 'निश्चेत्यादि' नित्य -
For Private & Personal Use Only
|संग्रहणिः,
॥१३४॥
ww.jainelibrary.org