SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Jain Education परिणाम्यादि 'भागवतादिरपि' भागवतो - भगवद्दर्शनानुरागी, आदिशब्दात् तदन्यनृपादिपरिग्रहः, 'तथाबोधात्' नित्यादिरूपतया अवगमात् ॥ ३१२ ॥ द्वितीयपक्षदूषणाभिधित्सया आह अह franchi अग्गहणं एत्थ णिच्छओ कह णु ? | जं तमवबोधमेत्तं संगहियासेसगं चेव ॥ ३१३ ॥ अथ निर्विकल्पकेनाग्रहणम् - अपरिच्छेदो ध्रुवादेर घटमानतेत्यत्राह - 'एत्थ इत्यादि' अत्र - निर्विकल्पेनाग्रहणमात्रादघटमानत्वविषये कथं नु नाम निश्चयो ?, नैव कथंचनापीतिभावः । कुत इत्याह-'यत्' यस्मात् तत् - निर्विकल्पकं ज्ञानम् 'अवबोधमात्रम्' अव्यक्तखरूपावगममात्रम् । एतदेव स्पष्टयति- 'संगहिया से सगं चेवत्ति' संगृहीताशेपकमेव उपसर्ज नीकृताशेषविशेषकमेव केवलसन्मात्रग्राहित्वात् । एतदुक्तं भवति - यदि निर्विकल्पकं प्रत्यक्षं क्षणिकत्वादिरूपेणापि वस्तुग्रहणपटु स्यात् स्यादेव तेन ध्रुवादेरग्रहणादयुक्तरूपता यावता तत्केवलसन्मात्रावगमनिष्ठितसत्ताकमेव, ततः कथं तेनाग्रहणमात्रात् ध्रुवादेरयुक्तरूपता?, मा प्रापत् क्षणिकत्वाद (त्वस्या) प्ययुक्तरूपताप्रसङ्ग इति । इह 'जं तमववोहमेत्तं संगहियासेसगं चेवेति' वदता आचार्येण यदुच्यते परैः - 'निर्विकल्पक प्रत्यक्षे सकलसजातीयविजातीयव्यावृत्तमसाधारणं वस्तु सर्वात्मना प्रतिभासत इति तदयुक्तं द्रष्टव्यमित्यावेद्यते । तथाहि तत्प्रतिभासो निश्चयबलेन व्यवस्थाप्यते, For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy