________________
संग्रहणिः .
॥१३५॥
CROSSES
अन्यथा तद्यवस्थानायोगात् , वचनमात्रेण प्रतिभासान्तरस्यापि कल्पयितुं शक्यत्वात् । न च निर्विकल्पकानन्तरम- साधारणवस्तुगोचरो निश्चय उपजायते, किंतु सन्मात्रगोचर एव, तथानुभवभावात् , क्वचित् शीघ्रदर्शनादौ तथाप्रतीतेः । न चान्यथा वस्तुग्रहे अन्यथा निश्चयोत्पादो युक्तः, असमञ्जसतापत्तेः। एवं हि नीलदर्शनादपि पीतादिनिश्चयप्रसङ्गः, तथा च सति पीतादिवस्तुव्यवस्थानायोगः, तन्निश्चयस्यान्यत एव नीलदर्शनादेरुत्पादात् , तदन्यस्य च व्यवस्थापकस्याभावात् । ततः प्रथमाक्षसन्निपातजे निर्विकल्पके अवग्रहकल्पे सन्मात्रमेव केवलमाभासत इत्येवाभ्युपगन्तुं युक्तम् । उक्तं च-"सद्रव्याद्यनेकखभावे वस्तुनि सन्मात्रग्राह्येवावग्रहकल्पमविकल्पमङ्गीकर्त्तव्यम्" एवंभूते | चास्मिन्नावयोरविवादः, एवंविधावग्रहस्यास्माभिरभ्युपगतत्वादिति ॥ ३१३ ॥ तृतीयपक्षमपाचिकीर्षुरिदमाह
आलोयणाएवि कहं तस्साभावो ? वियप्पनाणाओ।
जम्हा एवं तई पवत्तई तं च भे' मिच्छा ॥ ३१४ ॥ आलोचनयापि-विचारणयापि कथं तस्य ध्रुवादेरभावो निश्चीयते?,नैव निश्चीयत इति भावः। कुत इत्याह-यस्मात् 'तइत्ति' सका आलोचना प्रवर्त्तते विकल्पज्ञानात् , निर्विकल्पकस्य सकलकल्पनातीतत्वेनाविचारकत्वात् , तच्च
१ ते इति कपुस्तके।
॥१३५॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org