SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ६ विकल्पज्ञानं 'भे' भवतां मतेन मिथ्या, यथावस्थितवस्तुसंस्पर्शित्वानभ्युपगमादिति ॥ ३१४ ॥ अत्रैव पराभिप्राय दूषयितुमाशङ्कते अह तस्सेवमजुत्ती णेया अथकिरियाविरोहाओ।। खणिगे तीऍ विरोहो णिच्चे उण जुजई कहवि ॥ ३१५ ॥ अथ तस्य-ध्रुवादेरेवं-वक्ष्यमाणप्रकारेण अयुक्तिर्जेया । केन प्रकारेणेत्यत आह-अर्थक्रियाविरोधात , अर्थक्रियाकारित्वं हि वस्तुनो लक्षणं, “यदेवार्थक्रियाकारि तदेव परमार्थसदितिवचनात् ," सा चार्थक्रिया ध्रुवादौ नोपपद्यते, ततस्तस्याघटमानतेति । अत्राह-'खणिगेत्यादि' क्षणिके वस्तुनि तस्या अर्थक्रियाया विरोधो, नित्ये पुनः कथंचिदभ्युपगम्यमाने सा युज्यत एव । तथाहि-क्षणिकस्यार्थस्यार्थक्रिया किं स एव भाव आहोखित् भावान्तरम् ? । यदि स एव भावस्ततोऽर्थक्रियां करोतीत्यात्मानं करोतीत्यायातम् , एतच्चायुक्तम् , आत्मन एवात्मन उत्पा-3 दानभ्युपगमात् , खभाववादापत्तेः । अथ भावान्तरमर्थक्रियेति पक्षस्तदप्ययुक्तम् , तथापि तत्करणसामर्थ्यायोगात्। तद्धि सामर्थ्य ततो व्यतिरिक्तम् अव्यतिरिक्तं वा?, यदि व्यतिरिक्तं तर्हि तस्येदं सामर्थ्य मिति संवन्धानुपपत्तिः, तदन्यस्येव व्यतिरेकाविशेषात् , अथाव्यतिरिक्तं न तर्हि भावान्तरोत्पत्ताविदमुपयोगि, तदुत्पत्तिकाले विवक्षितभाव Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy