________________
धर्म
॥१३६॥
Jain Education In
स्येव तस्यापि सामर्थ्यस्य तदव्यतिरेकेण सर्वथा विनिवृत्तत्वात् । तस्मान्न कथंचनापि क्षणिके वस्तुनि अर्थक्रिया घटते, किंतु कथंचिन्नित्ये एव, तस्यैव तेन तेन रूपेण भवनात्, अतस्तद्रूपमेव वस्तु अभ्युपगन्तुं युक्तं, नत्वेकान्तक्षणिकमिति । अथवा क्षणिके तस्या अर्थक्रियाया विरोधो, नित्ये पुनः कथंचित्कयाऽपि खभावकल्पनया युज्यते एव, नहि क्षणिकपक्षेऽपि क्षणिकमित्येवार्थक्रियाकारितोपपद्यते, किंतु तत्करणस्वभावतया, सा च नित्यपक्षेऽपि विद्यते, ततो नित्यमपि क्रमसाध्यामर्थक्रियां क्रमेण यौगपद्यसाध्यां यौगपद्येन करिष्यति, आकालं तत्रमयौगपद्यसाध्यार्थक्रियाकरणैकस्वभावत्वात् स्वभावस्य चापर्यनुयोगार्हत्वात् । क्षणिकपक्षे पुनस्तथाभूतस्वभावकल्पनयापि सा अर्थ - क्रिया न घटत एव, यतः क्षणिकस्यार्थनिष्पादनशक्तिः आत्मभूतिरेव, "भूतिर्येषां क्रिया सैवेति" वचनात्, सा चात्मभूतिर्दुरुपपादा, कारणस्य निरन्वयविनाशे सति उत्तरस्यात्यन्तासतः खरविषाणस्येवोत्पादायोगात्, एतच्च 'नाभावओ भावो' इत्यादिना प्रागेवाभिहितम्, ततोऽर्थक्रियाविरोधेन यदि वस्तु सदभ्युपगम्यते तद्वरं नित्यमभ्युपगम्यतां न तु क्षणिकमिति । कथंचिदित्यनेन चाचार्यों नित्यपक्षेऽप्यरुचिमात्मनो दर्शयति, परं नित्यपक्षादप्ययं पक्षः पापीयानिति दर्शयितुमेवमुपन्यस्तमिति ॥ ३१५ ॥ अन्यच्च
खणिगत्ते सदसत्तं तस्सुप्पाओ तओ विणासो य ।
For Private & Personal Use Only
संग्रहणि.
॥१३६॥
www.jainelibrary.org