________________
णटुस्स तओ भावो सइ णासे तट्टिई किह णु ? ॥ ३१६ ॥ क्षणिकत्वे भावानामभ्युपगते सति सामर्थ्यात्सतोऽसत्त्वं भवतीत्यभ्युपगतं भवति, तथा च सति तस्य कादा-18 चित्कतया भवत्येवोत्पादो, यचोत्पद्यते तदवश्यं विनश्यति, तत उत्पादाभ्युपगमात्तस्य विनाशोऽभ्युपगतः, तस्मा-17 चासत्त्वस्य विनाशाभ्युपगमात्पूर्व नष्टस्य सतो भावस्य पुनर्भावप्रसङ्गः, सत्त्वासत्त्वयोरेकतरनिवृत्तरपरविधिनान्तरीयकत्वात् । स्यादेतत् न वै नाशो नामान्य एव कश्चिद् , अपि तु क्षणस्थितिधा भाव एव, न च तस्योत्पत्त्याद्यापादने कश्चिदोष इति । तदप्ययुक्तम् , यतो द्वितीयादिक्षणेष्वस्थितौ सत्यामेष भावः क्षणस्थितिधर्मेति वक्तुं पार्यते
नान्यथा, सा चास्थितिःप्रथमेऽपि क्षणे न विद्यते, भावस्याभावप्रसङ्गात् , तथा चाह-'सइ नासेत्यादि तथा प्रथमेऽपि शिक्षणे नाशेऽभ्युपगम्यमाने सति तस्य-भावस्य स्थितिः-आत्मलाभः कथं भवेत् ?, नैव कथंचनेति भावः, अस्थित्या
क्रोडीकृतत्वात् , किंतु द्वितीयादिक्षणेष्वेव, ततस्तदवस्थमेव कादाचित्कत्वादभावस्योत्पत्त्यादि । अथोच्यते-नैवा
भावो नाम कश्चिद्भवति, तस्यैकान्ततुच्छरूपत्वेन सकलशक्तिविकलतया भवनधर्मकत्वायोगात् , केवलं स एव । प्रभावः खहेतुभ्यस्तथा उत्पन्नो येन क्षणादूद्ध न भवतीति । तदुक्तम्-"न तत्र किंचिद्भवति न भवत्येव केवलमिति"|
ननु यद्येवं तर्हि सर्वथा तन्निवृत्तेरभवनात्सदा अभावस्य भावप्रसङ्गः, तथा च सति क्षणिकत्वाभ्युपगमाय दत्तो जला-18
Jain Education Intex
For Private & Personel Use Only
A
w.jainelibrary.org