________________
धर्म-
संग्रहणि.
॥१३७॥
अलिः । अथ तस्य किंचित् तुच्छरूपं भवितृ प्रतिषिध्यते न पुनर्भावस्थापि सर्वथा निवृत्तिः, सा हि अभ्युपगम्यत एव, द्वितीये क्षणे तस्य निवर्त्तनात् । अहो निरतिशयनिबिडजडिमावष्टब्धान्तःकरणताविलसितं ! भावस्य निवृत्तिभवनमिच्छति अभावस्य तु भवनं नेच्छतीति । न खलु भावस्य खनिवृत्तिभवनादन्यदभावभवनं किंतु तदेव, तच कादाचित्कं, ततः कथमस्योत्पत्त्यादि प्रतिक्षेनुं शक्यते ? इति । एकान्ततुच्छत्वात्कथमस्योत्पत्त्यादि युक्तिमदिति चेत् ?, ननु भावस्याप्यतुच्छरूपत्वात्कथमुत्पत्त्यादि युक्तिमदिति वाच्यं ?, किमत्र वाच्यं ? तस्मिन्नेव विवक्षिते क्षणे भाव उत्पद्यते इति युक्तमेव तस्योत्पत्त्यादीति चेत् , हन्त तदिदं विवक्षित एव क्षणे उत्पद्यमानत्वमेकान्ततुच्छस्याप्यभवनस्याविशिष्टं, भावभवनकाले तस्याप्यभावादिति निवेश्यतां सम्यगवगमे चेतः । अथोच्येत-भावस्योत्पत्तिमत्वेन एकान्ततुच्छरूपा निवृत्तिर्भवेत् , तस्य स्वयमतुच्छरूपत्वात् , यत्तु अभवनं तदेकान्ततुच्छरूपं, ततस्तस्य निवृत्त्या किं प्रयोजनं ?, निवृत्त्या हि तुच्छरूपताऽऽपादनीया, सा च तस्याग्रेऽपि स्वयं सिद्धेवैति, तदप्ययुक्तम् , भावाभावयोरेकतरप्रतिषेधस्यापरविधिनान्तरीयकत्वेनाभावस्य खरूपप्रतिषेधे भावरूपतापत्तेः । असतः कथं भावरूपतापत्तिरिति चेत् सतोऽपि कथमभावरूपतापत्तिरिति वाच्यं ?, सहेतुकत्वात्तस्यावश्यं विनाशेन भवितव्यं तेनायमदोष इति चेत्, तदेतदितरत्रापि समानं, नह्येतदपि अभवनं भावकालेऽप्यस्ति, ततस्तत्क्षणादूर्द्धमेतत् नियमात्तद्धेतुकं, तथा च सत्यवश्यमस्यापि विनाशप्रसङ्ग इति । एवं च यदपि परैरभिधीयते-"एतेनाहेतुकत्वेऽपि, ह्यभूत्वा नाशभावतः। सत्ता
॥१३७॥
Jain Education Interi
For Private & Personel Use Only
Glaw.jainelibrary.org