SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte नाशित्वदोषस्य, प्रत्याख्यानप्रसञ्जनम् ॥१॥ इति, तदप्यपाकृतमवसेयम्, तुच्छरूपस्याप्यभवनस्य प्रथमक्षणेऽभावतो द्वितीयादिषु च क्षणेषु भावतः कादाचित्कतया सत्तानाशित्वदोषस्य प्रत्याख्यातुमशक्यत्वादिति स्थितम् ॥ ३१६ ॥ कार्यकारणभावावगमे एव प्रस्तुते दूषणान्तरमाह णय तद्धम्मागमो कहंचिदवि अस्थि जं ततो नियमो । वइमे त्तकोसपाणादिसवहगम्मो मुणेयवो ॥ ३१७ ॥ शब्दो दूषणान्तरसमुच्चये । न च यत् यस्मात्तद्धर्म्मानुगमः कथंचिदपि कार्ये विद्यते, कारणस्य निरन्वयविनाशितयाऽभ्युपगमात् ततस्तस्मादयं कार्यकारणभावनियमोऽवगमपूर्वक उच्यमानो वाङ्मात्रं कोशपानादिशपथगम्यो वा, न प्रमाणनिबन्धनः, नियमविषयप्रमाणप्रवृत्तिहेतोरन्वयस्याभावात् । इह 'कज्जाणं अखिलाणं असेसकारणविसेसरहियाणामित्यादि' पूर्वमुक्तं कार्यकारणयोर्यथाक्रमं तज्जन्यताखभावतज्जननस्वभावविशेषविघटनविषयमिदं तु कार्य - कारणभावावगमविघटनविषयमिति न पुनरुक्तता ॥ ३१७ ॥ अत्र पराभिप्रायमपाकर्तुमाशङ्कते - अह उत्तरावरट्टिय-खणदुगगहणमिह दिस्सते सक्खं । किं तेण ? जंण तेसिं सोवगतो हेतुफलभावो ॥ ३१८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy