SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि, ॥१३८॥ ROCEROSECONOR अथ उत्तरावररूपता यत् क्षणद्विकं तस्य ग्रहणमिह साक्षात् दृश्यते-खसंवेदनप्रमाणेनानुभूयते, तत्कथमुच्यते- न कथंचनापि कार्यकारणभावावगमः, उत्तरावरयोरेव क्षणयोः कारणकार्यत्वात्तयोश्च प्रत्यक्षेण ग्रहणादिति । अत्रोत्तरमाह-'किं तेणेत्यादि' किं तेनोत्तरावरस्थितक्षणद्विकग्रहणेन ?, यत्-यस्मान्न तयोः-उत्तरावरत्वेन स्थितयोः क्षणयोः 'स' हेतुफलभावोऽवगतः, नह्यन्त(धुत्त)रावरस्थितक्षणद्विकग्रहणमित्येव कार्यकारणभावावगमः, मृत्पिण्डपटक्षणयोरपि कदाचिदुत्तरावरत्वेन स्थितयोह्यमाणत्वात् , तयोश्च कार्यकारणभावानभ्युपगमादिति ॥३१८॥ पुनरप्यत्रैवाभ्युचयेन दूषणमाह ण य सामन्नं पतिवत्थु-सबहाभेदवादिणो किंचि । अस्थि वियारिजंतं जस्स वला होइ तदवगमो ॥ ३१९ ॥ __ अयं हि कार्यकारणभावावगमः सामान्यविषयो, यथा एतादृशं धूमलक्षणं कार्यमेतादृशाग्निलक्षणकारणजन्यमिति, अन्यथा कार्यानुमानोच्छेदप्रसङ्गात् । तथाहि-न ययोरेव महानसे धूमहुतवहयोः कार्यकारणभावोऽवगतः तावेव पर्वतनितम्बे स्तः, किंत्वन्यौ, न च तयोः कार्यकारणभावोऽवगत इति कार्यानुमानोच्छेदप्रसङ्गः, तस्मात्सामान्यविषयः कार्यकारणभावावगमः, न च तत्सामान्यं सर्वथा प्रतिवस्तुभेदवादिनो बौद्धस्य किंचित् व्यावृत्तिलक्ष CCCCCCCX ॥१३॥ Jain Education Intel For Private & Personel Use Only Www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy