________________
मपि यावत् विचार्यमाणमस्ति, यद्वशात्तदवगमः-कार्यकारणभावावगमः स्यात् , ततः कथं क्षणिके वस्तुनि कार्यकारणभावावगम इति ? ॥३१९॥ यथा च विचार्यमाणं न किंचिदपि सामान्यमस्ति तथोपपादयन्नाह
पतिनियतेगसहावा भावा सवे मिहो विभिण्णा य ।
सव्वत्तो सव्वेसिं अविसिट्रा तेण वाबत्ती ॥ ३२० ॥ इह हि प्रतिनियतैकखभावा भावा मिथः-परस्परं भिन्नाच, तेन कारणेन सर्वेभ्यो व्यावृत्तिरविशिष्टा, ततो न तद्वारेणापि भवतः सामान्यकल्पनासंभवः । एतदुक्तं भवति-यथा घटधूमयोः सर्वेभ्यः सर्वात्मना ब्यावृत्तयोः परस्परमप्येकान्तेन व्यावृत्तत्वात नोभयोरविशिष्टा अधूमव्यावृत्तिनिबन्धना धूमसामान्यकल्पना कतु युज्यते,तथा विवक्षितधूमयोरपि परस्परमेकान्तेन व्यावृत्तेरविशेषादिति ॥३२०॥
जइ कोइ कुतोइ भवे अबावित्तो कहंचि तो होजा।
वावित्तीण विसेसो तत्तो सामन्नववहारो ॥ ३२१ ॥ यदि कोऽपि धूमादिः कुतश्चित्-धूमान्तरादेरेव कथंचित-अधूमव्यावृत्तत्वादिना प्रकारेण भवेदव्यावृत्तस्ततो भवेद्भावेषु व्यावृत्तीनां विशेषः, यथा-न घटादिपु धूमाव्यावृत्तिरस्ति. धूमेपु च धूमान्तराद्विद्यत एवेति, तसाच
धर्म. २४ Jain Education Inter
AN
For Private & Personal Use Only
T
w.jainelibrary.org