________________
Jain Education Inter of
च्यमयमाचार्य परंपरको न प्रमाणं, यस्मादस्य परंपरकस्याप्रमाणत्वे सति सर्वागमक्रियालोपः प्रसज्यते, तमन्तरेणान्यस्वार्थनियमव्यवस्थानिबन्धनस्याभावात् । तस्मादसौ प्रमाणमेव ॥ ५३१ ॥ किंच,
अन्नाणिमतं पि इमं आगमघडियं व होज्ज इतरं वा ? | पढमम्मि परंपरओ माणं इतरम्मि तु ण जुत्तं ॥ ५३२ ॥
अज्ञानिमतमपि इदं किमागमघटितं वा भवेत् इतरद्वा - अनागमघटितं वा ? । तत्र प्रथमपक्षे परंपरक एव प्रमामायातोऽन्यस्य तदर्थावगम निबन्धनत्वाभावात् । इतरस्मिंश्चानागमघटितत्वलक्षणे पक्षे न युक्तमिदमज्ञा निमतं, निर्मूलत्वात् ॥ ५३२ ॥ पर आहआगमघडितं तहावि उववन्नमेयमेवंति ( वत्ति) ।
जव
णाऊण पवित्तीओ का उववत्ती तु अन्नाणे ? ॥ ५३३ ॥
यद्यप्येतदज्ञानिमतमनागमघटितं तथाप्येतदुपपन्नमेवेतिचेत् । तदयुक्तम्, कुत इत्याह- ज्ञात्वा प्रवृत्तेः । न हि प्रेक्षावतां हेयमुपादेयं वा तत्त्वेनापरिज्ञाय हातुमुपादातुं वा प्रवृत्तिरुपजायते, प्रेक्षावत्ताक्षितिप्रसङ्गात्, तच्च परि| ज्ञानमज्ञानपक्षेऽतीव दुर्घटमिति कथमज्ञानपक्षे भवतां प्रवृत्तिः प्राप्नोति ?, स्वाभ्युपगमविरुद्धत्त्वात् । यदप्युक्तमेतदुपप
For Private & Personal Use Only
ww.jainelibrary.org