________________
जं सग्गकेवलत्थी तवादि कुज्जा सुते भणियं ॥ ५२१ ॥ तत एवागमात् फलभूतःसर्वज्ञोऽपि चासंशयं सिद्धः। यत्-यस्मात्तस्मिन्नेव श्रुते-आगमे भणितम्-'सरगकेवलथी। वादि कुजत्ति' स्वर्गकेवलार्थी तपआदि कुर्यात् । आदिशब्दात् ध्यानादिपरिग्रहः ॥ ५२१॥ अत्र पर आह
आगमतो सबन्नू तत्तोच्चिय आगमस्स पामन्नं ।
इतरेतरासयो इय दोसो अणिवारणिजो उ ॥ ५२२ ॥ आगमात्सर्वज्ञो भवति, 'तत्तो चिय फलभूओ सवण्ण इतिवचनात् , तत एव च सर्वज्ञादेव च चियशब्दः प्राकृतनिपातोऽवधारणे, आगमस्य प्रामाण्यम् । "जिनप्रणीतं साधु निमित्तसिद्धेर्नान्यत्तदभावादिति वचनात्" । ततः किमित्याह-'इयरेयरेत्यादि' इतिः-एवमुक्तप्रकारेण इतरेतराश्रयदोषोऽनिवारणीयः प्राप्नोति। तथाहि-यावन्नागमस्य प्रामाण्यं तावत्कुतस्तत्र पुरुषस्य प्रवृत्तिः?, निश्चितप्रामाण्य एव तत्र प्रेक्षावतां प्रवृत्तेरन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात् ।। प्रवृत्त्यभावाच्च कुतस्तत्फलभूतः सर्वज्ञः ?, यावच्च च तत्फलभूतः सर्वज्ञस्तावत्कुतस्तस प्रामाण्यं ?, सर्वज्ञप्रणीतत्वेन तस्य प्रामाण्याभ्युपगमात् , तस्य च प्राग्युक्तेरसंभवात् ॥ ५२२ ॥ अत्राचार्य आह
१ शुद्धेरिति क-पुस्तके ।
Jain Education
For Private & Personel Use Only
Wioww.jainelibrary.org