SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ पर पावई नासो । तन्नासम्मि य भावो पुचविणहस्स भावस्स त्ति' । तदप्यसमीचीनम् , यतो घटादिनिवृत्तिविशिष्टानामेव कपालादीनामुत्तरोत्तरकार्यरूपतया परिणामः, ततो घटादिनिवृत्तेरपि उत्तरोत्तरपर्यायधर्मरूपतया परिणममानत्वात् न कृतकत्वान्नाशापादनमस्माकं दोषाय, तथाभ्युपगमात् । न च वाच्यं तन्नाशे घटादिभावोन्मजनप्रसङ्गः, यतः सा कपालसंबन्धिरूपतया विनश्यति न सर्वथा, परिणामपक्षे सर्वथा नाशाभावात् , उक्तं च-"नार्थान्तरगमो यस्मात्सर्वथैव न चागमः । परिणामः प्रमासिद्धः, इष्टश्च खलु पण्डितैः॥१॥ इति" ॥ इत्थं चैतदङ्गीकर्तव्यमन्यथा त्वत्पक्षेऽपि भावकाले तुच्छरूपस्याभावस्याभावात् तत्क्षणानन्तरं च तस्य भावतः कादाचित्कतया भावस्येवं नाशे सति 8 दापुनर्भावोन्मजनप्रसङ्गो दुर्निवारः । अपि च, घटाभावस्य नाशहेतुर्मुत्पिण्डपर्यायः सकलसामग्रीकोऽन्त्यावस्थाप्राप्तो. यतो य एव घटभावः स एव तदभावनाशस्ततो य एव घटस्य हेतुः स एव तदभावनाशस्थापि, घटस्य च हेतुर्यथोक्तरूपो मृत्पिण्डपर्यायः, सच घटपर्यायादृद्रं प्रायो न भवति, ततस्तदभावात् घटाभावनाशस्याप्यभाव इति कृतं प्रस नेन । तदेवं न निर्हेतुको भावानां विनाशः किंतु सहेतुकस्तथा च कुतः क्षणिकत्वमिति ?॥ ४७३ ॥ एवमन्येऽपि ये तक्षणिकत्वप्रसाधनाय परिणामादयो हेतवः परैरुपन्यस्यन्ते ते सर्वेऽप्यहेतव एव द्रष्टव्याः, तथा चाह १ भवतः इति ख-पुस्तके । २ भावस्यैव इति ख-पुस्तके । Jain Education inte For Private & Personel Use Only Sww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy