________________
संग्रहणि
ASKAR
॥१९॥
इय परिणामंतक्खय-दरिसणपमुहावि हेयवो सवे ।
एगंतखणिगपक्खे अहेतवो चेव दट्टवा ॥ ४७४॥ इतिः-एवमुक्तनीत्या परिणामान्तक्षयदर्शनप्रमुखा अपि ये हेतव एकान्तक्षणिकपक्षे परैरुपन्यस्यन्ते ते सर्वेऽप्यहेतवो द्रष्टव्याः। तथाहि-परिणामो नाम कथंचिदवस्थितस्य कथंचित्पूर्वरूपत्यागेनावस्थान्तरापत्तिरभिधीयते । तदुक्तम्'परिणमणं परिणामो जम्हावत्थंतरावत्ती,' इति। तत्कथमेष क्षणिकत्वप्रसाधनायालं भवेत् ? । यदपि चोच्यते "परिणामवादिभिरवश्यं भावानामतादवस्थ्यमभ्युपगन्तव्यमन्यथा परिणामायोगात्, तथा च सत्यस्माकमिष्टसिद्धिः, अतादवस्थ्यमनित्यतां ब्रूम' इतिवचनादनित्यत्वसिद्धेरिति । तदपि बालिशजल्पितम् , अतादवस्थ्यस्य परिणामपक्षे कथंचिदेवाभ्युपगमात् , तस्य चान्वयाविनाभूतत्वेनैकान्तक्षणिकत्वप्रतिपन्थित्वादिति । अन्तक्षयदर्शनमपि अन्त एव क्षयसाधनायालं नादावपि । स्यादेतत् , यद्यादौ क्षयो नाभ्युपगम्यते ततोऽन्तेऽपि क्षयो न स्यात् , युक्तित आकालनित्यतापत्तेः, तथाहि-घटस्य वर्षदशकस्थितिखभावस्य प्रथमक्षणातिक्रमे तत्वभावनिवृत्तिर्भवति वा न वा ?, तत्र यद्याद्यः पक्षस्ततोऽतादवस्थ्यं, तथा च क्षणिकत्वप्रसङ्गः । अथ द्वितीयः पक्षस्तर्हि क्षणान्तरातिक्रमेऽपि स एव खभावो यावचरमक्षणेऽपि स एव स्वभावः, ततो यथा प्रथमक्षणभाविवर्षदशकस्थितिखभावत्वसामर्थ्यात्तस्य वर्षद
BOOCALCCASISAMARNAMA
el
RERA
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org