________________
शकं यावदवस्थानमभूत् तथा चरमक्षणवर्तितत्वभावसामर्थ्यादन्यदपि वर्षदशकं यावत्तेनावस्थातव्यं, न्यायस्य समानत्वात् , तत्रापि चरमसमये स एव स्वभाव इत्यन्यदपि वर्षदशकं यावत्तेनावस्थातव्यं, तत्रापि चेयमेव युक्तिरित्याकालनित्यतापत्तिः, अथ चान्ते क्षयो दृश्यते, तस्मादन्तक्षयदर्शनान्यथाऽनुपपत्त्या तस्यादावपि क्षयोऽनुमीयत इति, तदेतदयुक्तम् , वर्षदशकस्थितिखभावत्वेऽभिहिते सति परमार्थतो विकल्पयुगलस्याप्रवृत्तेः, तस्य कथंचिद्वादानुयायित्वात् । तथाहि-घटः खहेतुभ्यो वर्षदशकस्थितिखभावः समुत्पन्नस्तत्कथमस्य प्रथमक्षणमात्रातिक्रमे सति एकान्तेनातादवस्थ्यं भवेत् ?,प्रथमक्षणस्य वर्षदशकवायोगात् , कथं वा तादवस्थ्यमेव ?, तथा सति वर्षदशकस्थितिखभावत्वविरोधात्, यदि हि तस्य कथंचित् प्रतिक्षणमपचयभावेन वर्षदशकचरमक्षणे वर्षदशकस्थितिखभावत्वस्य सर्वात्मना निवृत्तिर्भवति तदा तस्य तत्वभावत्वकल्पना कर्तुं युज्यते नान्यथा, तन्न वर्षदशकस्थितिखभावत्वस्य प्रथमक्षणातिक्रमे सत्येकान्तेन निवृत्ति प्येकान्तेनानिवृत्तिः किंतु कथंचित् । तथाहि-प्रथमक्षणापेक्षया निवृत्तिः, शेषक्षणापेक्षया चानिवृत्तिरिति । एतदुक्तं भवति-वर्षदशककालस्य नियतमानत्वात् एतद्वर्षदशकस्थितिस्वभावत्वं मनुव्यपर्यायवत् प्रतिक्षणमवश्यं न्यूनभावेन परिणामि । तथाहि-यदेव प्रथमे क्षणे वर्षदशकस्थितिखभावत्वमासीत् तदेव द्वितीये क्षणे प्रथमक्षणहीनवर्षदशकस्थितिखभावत्वरूपतया उपजातम् , एवमुत्तरक्षणेष्वपि भावनीयमिति न कश्चिद्दोष इति कृतं प्रसङ्गेन ॥ ४७४ ॥ उपसंहारमाह
ACCORMATOMACANCCNX
Jain Education Intel
For Private & Personel Use Only
A
ww.jainelibrary.org