________________
९८२
संग्रहणि
॥१९॥
एव भावानां विनाशः किंतु मुद्रादेरिति स्थितम् ॥ यत्पुनरुक्तं 'विनाशहेतुः किं विनाश्यमेव कुर्यादित्यादि तत्र विनाश्यपक्षः केवलतदन्यभावान्तरपक्षश्वानभ्युपगमादेव न नः क्षितिमावहति । तदभावपक्षोऽपि केवलपर्युदासरूपः केवलप्रसज्यरूपो वा अनभ्युपगमेनैव तिरस्कृतः । उभयरूपाभ्युपगमे तु दोषाभावः । यदप्यत्रोक्तम्-तदभाव-18 मथ करोतीति पक्षस्तर्हि भावं हन्त न करोतीत्यापतितं, प्रसज्यपक्षे नञः क्रियापदेनैव संबन्धात् , अभावस्य प्रसज्यप्रतिषेधरूपस्य एकान्ततुच्छरूपतया कर्तुमशक्यत्वादिति । तदप्यनल्पतमोविलसितम् , अभावस्य प्रसज्यप्रतिषेधरूपस्य वस्तुधर्मतया एकान्ततुच्छरूपत्वाभावात् , एतच्च प्रागेवाभिहितमिति । चरमपक्षोऽप्यबाधक एव, अकिंचि-18 कराणामप्युत्पत्ताविय नाशेऽपि हेतुत्वाभ्युपगमे दोषाभावात् । यदप्युक्तम् 'नश्वरो वा स्यादनश्चरो वेति विकल्पद्वयम्,' तत्रानश्वरपक्षोऽनभ्युपगमादेवापास्तः । नश्वरपक्षेऽपि प्रतिनियतानुपकारिसहकारिसापेक्षत्वेन नश्वरखभावाभ्युपगमे दोषाभाव इति । एतेन 'न यसो हवेज नियमा कयगाणवि कारणंतरावेक्खो' इत्याद्यपि प्रत्युक्तम् । यतस्तेषामित्थंभूत एव स्वभावः स्वहेतुभ्यः समुत्पन्नो येनानुपकारिणमपि प्रतिनियतमेव सहकारिणमासाद्यावश्यं विनश्यतीति । तथा च सति न केषांचित् कृतकानामपि न विनाशः प्राप्नोति, तत्वभावसामर्थेन कारणान्त- राणामवश्यमुपनिपातसंभवात् । अन्यथा तेषां तत्स्वभावत्वायोगात् । वस्त्रस्य तु तथाखभावत्वाभावान्नावश्य रागकारणोपनिपातसंभवस्तदसंभवाच नावश्यं रागसंभव इति । यदप्युक्तम् 'किंच सहेउपक्खे कजस्स व तस्स
॥१९॥
Jain Education Inter
?
For Private Personel Use Only
&
w.jainelibrary.org