SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ शब्दान्वर्थात, तदुक्तम्-"तद्भावः परिणामो यत्तेन तथा भूयत इति"। तस्मात्स कथमेकान्तक्षणिकपक्षे स्यादिति ?। अथोच्येत-किं तेन कथंचिदवस्थान्तरापत्तिरूपेण परिणामेन ?, पूर्वक्षणसामर्थ्यादेव हि तथारूपसंक्लेशपरिणामोपेतःस उत्तरक्षण उपजायते, ततस्तस्य हिंसकत्वमिति । तदप्ययुक्तम् , पूर्वक्षणादसंक्लिष्टात् केवलात् तथासंक्लेशविशिष्टोत्तरक्षणानुपपत्तेः, अन्यथा योगिनामपि तत्प्राप्तिप्रसङ्गात् । मा भूत् केवलात् पूर्वक्षणात्, हिंस्यादिसहकारिसचिवात्तु भविष्यतीति चेत् । न । हिंस्यादिसहकारिणः सकाशात् पूर्वक्षणस्य समकालभावितया अतिशयलाभायोगात् । अनतिशयाच तस्मात् हिंस्यादिसहकारिविकलादिव तथारूपसंक्लेशविशिष्टस्योत्तरक्षणस्योत्पादासंभवात् ॥ ४७२ ॥ अथ मा स्मोत्पादि पूर्वक्षणसामर्थ्यादेष तथारूपसंक्लेशपरिणामः किंतु निर्हेतुक एवासावुत्पद्यत इति, एतहपयितुमाशङ्कते निरहेउगो तओ अह निच्चं भावो ण वा कदाचिदवि । तस्सेवंपि हु सिक्खावतदेसणमणुववन्नं तु ॥ ४७३ ॥ अथ 'तउत्ति'सकस्तथारूपसंक्लेशपरिणामो निर्हेतुक इत्यत्राह-'निचं भावो न वा कदाचिदवि' यदि स परिणामो निर्हेतुकस्ततस्तस्य नित्यं भावः प्राप्नोति न वा कदाचिदपि । “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणादिति न्यायात्" । ततस्तस्यैवमपि प्राणातिपातविरमणलक्षणशिक्षाव्रतदेशनमनुपपन्नमेव । तुशब्द एवकारार्थः । तन्न खहेतुत Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy