________________
Jain Education Inta
गपद्भावित्वं वा विना न भवति, ततः सोऽपि न घटत एव । एतदुक्तं भवति - अनादिपरम्परायामपि समकालभाविनां वा परस्परविशेषकरणं भवेत् संभूय तदन्यविशिष्टकरणं वा?, तत्र चोक्तो दोष इति ॥ २७३॥ अत्र परस्य मतमाशङ्कते - अह तस्स सहेऊतो एस सहावोति जेण सहकारी । पप्पाकिंचिकरंपि हु फले विसेसं फुडं कुणइ ॥ २७४ ॥
अथ तस्य - उपादानक्षणस्य स्वहेतुतः सकाशादेष एव स्वभाव उत्पेदे येनाकिंचित्करमपि सहकारिणं प्राप्य 'फले' उपादेयक्षणे 'स्फुटं' विवक्षितविशिष्टकार्यजननसमर्थ विशेषं करोति, ततो न वैशिष्ट्यं घटते इति यदुक्तं तदसमीचीनमेवेति ॥ २७४ ॥ अत्राह
माणं किमत्थ तीरति एव सहावंतरंपि कप्पेउं ॥ अत्थाणपक्खवातोय तस्सवेक्खाणियोगम्मि ॥ २७५ ॥
‘मानं' प्रमाणं किमत्र? यद्बलेनैवं भवता स्वभावः परिकल्प्यते, नैव किंचिदिति भावः । न च प्रमाणमन्तरेण स्वभावः परिकल्प्यमानो वस्तुव्यवस्थानिबन्धनं, यत एवं भवत्परिकल्पितस्वभाववत् स्वभावान्तरमप्यनिष्टरूपं कल्पयितुं शक्यत एव । अपिच, विवक्षितफलोपादानोपादानस्यास्थानपक्षपातोऽयं यत् स्वकार्य विशिष्टख फलसाधनप्रवृत्तमत्यन्तानुप
For Private & Personal Use Only
www.jainelibrary.org