________________
धर्म
संग्रहणिः .
॥८
॥
आह परः-अन्नवस्त्रलयनादिदानतो गृहस्थानां परिभोगतश्च संयतानां 'सिद्धिः' निर्वृतिलक्षणा श्रूयते, गृहिणा- मुत्तरकालं तत्सामर्थ्यतो विशिष्टज्ञानादिलाभात्, इतरेषां तु संयतानां यथागमपरिभोगतस्तदुपष्टम्भेन ज्ञानादिगराणानामुत्तरोत्तरप्रकर्षभावसंभवात् । ततोऽन्नादिद्रव्यदानं भावोपकार एव युज्यते, न तु द्रव्योपकार इति प्रष्टरभिप्रायः। इह च यदेव येषामेवोत्तरोत्तरपरमज्ञानदर्शनादिगुणलाभाय जायते तदेव तेभ्य एव दीयमानमात्मोपकाराय भवति, नान्यत् अन्येभ्यो वा दीयमानमिति ख्यापनार्थ परिभोगतश्च संयतानां सिद्धिरित्युक्तम् । अन्यथा उपकर्तुर्द्रव्यादिरूपतयोपकारखरूपव्यावर्णनप्रसङ्ग नैतदुपन्यासः फलवत्तामियादिति । अत्रोत्तरमाह-श्रूयते सा सिद्धिः, परं 'सा' सिद्धिः 'भावओत्ति' भावोपकारात् द्रष्टव्या, न त्वन्नादिद्रव्यदानमात्ररूपात् द्रव्योपकारात् । तथाहि-तैहिभिस्तेभ्यः तथा विशिष्टेनाध्यवसायेन कल्पनीयमन्नादि संप्रदीयते, यथा न केवलं तेषां संयतानां ज्ञानादिगुणोपष्टम्भो जायते, किंतु खस्याप्यायत्यां विशिष्टज्ञानदर्शनादिगुणलाभो भवति, एवं चायं भावोपकार एव, खपरयोः सम्यक्त्वादिषु संस्थापितत्वात् । एष च भावोपकारो निश्चयनयमतेन तथाविध विशिष्टात्मपरिणामरूप एव केवलो द्रष्टव्यः । “ परिणामियं पमाणं निच्छयमवलंबमाणाण"मितिवचनात् । यत्पुनः कल्पनीयान्नादिद्रव्यदानं तत्तस्य सहकारिकारणमात्रम् , अत एव क्वचित् कदाचित् तथाविधसामग्र्यभावेन कल्पनीयान्नादिद्रव्यदानाभावेऽप्येष भावो
१ परिणामिकं प्रमाणं निश्चयमवलम्बमानानाम् ।
Jain Education irodri
For Private & Personel Use Only
Nuwww.jainelibrary.org