________________
भावापकारः स विज्ञेयो, यदिह सम्यक्त्वज्ञानचरणेषु सदा आत्मनः परस्य च संस्थापनम् । तं चामुंभावोपकारं 'जिनाः' समुत्पन्नकेवलज्योतिषस्तीर्थकरा त्रुवते, 'अनिदानं' निदानं-भोगप्रार्थना तद्रहितम् । तथा च सति 'इह-४ परलोगट्ठा तह जो कीरइ' इत्यस्य पूर्वोक्तस्य न व्याघातः, सनिदानत्वेन तस्य भावोपकारत्वप्रसङ्गाभावात् ॥ ७ ॥
इहपरलोगासंसं मोत्तुं जो कीरते अविहिणा तु।
भत्तीए दवतोऽविहु एसो भावम्मि बोद्धबो ॥ ८॥ इहपरलोकाशंसां मुक्त्वा यः पुनः सम्यक्त्वादिषु, 'भत्त्या' बहुमानेन, स्वपरयोः संस्थापनलक्षण उपकारः 'अविहिणा उत्ति' अविधिना-विधिवपरीत्येन क्रियते, 'तुः' पुनरर्थे भिन्नक्रमश्च, स च यथास्थानं योजितः, एषः 'अविहिणा व भत्तीए' इत्यनेन प्राक् द्रव्यखभावत्वेनोक्तोऽपि 'भावे' भावविषयो द्रष्टव्यः, अस्य परम्परया मोक्षाङ्गत्वात् । अविधिदोषस्य तु भक्तिगुणेन निरनुबन्धीकृतत्वात् । यत्तु प्रागस्य द्रव्यखभावत्वमुक्तं तत् साक्षान्मोक्षाङ्गत्वाभावापेक्षया द्रष्टव्यमिति ॥८॥ तत्र परस्य चोद्यमाशङ्कते
आहऽन्नवत्थलयणादिदाणतो भोगतो य इह सिद्धी। गिहिसंजयाण सुच्चइ सुच्चइ णणु भावतो सावि ॥ ९ ॥
Jan Education Inter
For Private
Personel Use Only
Www.jainelibrary.org