________________
तस्यानिवर्तमानस्य रूपस्य संबन्धि यस्मादपरं रूपं निवर्तते ततस्तस्मान्न मूढ ! सूक्ष्मार्थविचारणानिपुणशेमुषीविकल! निवर्तमानेन रूपेण सहानिवर्तमानस्य रूपस्य सर्वथा भेदः, तस्येति व्यपदेशो हि संवन्धनिबन्धनः, संबन्धश्चेह। तादात्म्यं, तादात्म्यं च कथंचिदभेदनिबन्धनमिति, यदि पुनः सर्वथा भेदः स्यात् ततस्तस्मिन् भेदे सति कोऽनुयोगःसंबन्धस्तस्य निवर्तमानस्य रूपस्यानिवर्तमानेन रूपेण सह ?, नैव कश्चित् । तथाहि-भेदाश्रयणान्न तादात्म्यं, जन्यजनकभावाभावाच न तदुत्पत्तिः, संबन्धाभावे च कथं तस्येति व्यपदेशप्रवृत्तिरिति । अथ संबन्धाभावेऽपि तस्य तदिति व्यपदिश्यते तद्यतिप्रसङ्गः, तथा सति हि यत्किंचित् यस्य कस्य वा संवन्धीति व्यपदेशार्ह स्यात्, तथा चाह-"अइप्पसङ्गो यत्ति" ॥ ३६१ ॥ अत्र पर आह
जइ तस्स कह नियत्तति ? कहंचि जं तस्स तो ण दोसोऽयं ।
मोत्तृणमभिनिवेसं संवेदणमो न चिंतेसि ? ॥ ३६२ ॥ यदि तनिवर्तमानं रूपं तस्यानिवर्तमानस्य संबन्धीष्यते ततस्तस्मिन् अनिवर्तमाने कथं तत् निवर्तते ?, नैव निवर्तेतेतिभावः, तत्संबन्धित्वेन तत्वरूपवत्तस्य निवृत्त्यनुपपत्तेरिति । आचार्य आह-कथंचित् भेदगर्भान्योऽन्यानुवेधेन यत्-यस्मात्तत् निवर्तमानं रूपं तस्य-अनिवर्तमानस्य संबन्धि, न तु तत्वरूपवत् सर्वथैक्येन, 'तो' ततो न कश्चिदयम्
COCRACCOCOCCOLIC-SSCR-RH
धर्म.२७
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org