________________
धर्म
॥ १५७॥
| अनन्तरोक्तो दोषः । एतच प्रत्यक्षसिद्धमनेकधोच्यमानमपि यद्दोषवशान्नावबुध्यते तमपाकर्तुं परं शिक्षयन्नाह - ' मोत्तूणेत्यादि' मुक्त्वा अभिनिवेशं खदर्शन विषयक दाग्रहलक्षणं किन्न संवेदनं यथा वस्तुविषये प्रवर्त्तते तथा चिन्तयसि ? येनेत्थं पुनः पुनरस्मान्नायासयसि । तदेवं यस्मात् द्रव्यपर्याययोर्भेदस्तस्माद्वालाद्यवस्थाभेददर्शनादात्मा परिणामीति स्थितम् ॥ ३६२ ॥ स्यादेतद् - वालाद्यवस्थाभेदः शरीरस्य न त्वात्मनः, तत्कथं तद्दर्शनादात्मनः परिणामित्वमापाद्यते | इति ? । उच्यते - शरीरात्मनोः कथंचिदभेदात् । तदुक्तम्- " अण्णोण्णाणुगयाणं इमं च तं चत्ति विभयणमजुत्तं । जह खीरपाणियाणमित्यादि" ।
Jain Education Internatide
अमुमेवाभेदं व्यतिरेकमुखेनाह -
णय देहागंण एस अन्नो उवग्गहे तस्स ।
सुहजोगा मुत्तस्स व न सिया एसो उ अन्नत्ते ॥ ३६३ ॥
न च देहादेकान्तेन एप - आत्मा भिन्नः, किंतु कथंचित् । कुत ? इत्याह- 'उवग्गहे तस्स सुहजोगा' तस्य - शरीरस्य उप-सामीप्येन क्षीरनीरवत् ग्रहे-संबन्धे सति सुखयोगात्, उपलक्षणमेतत्, सुखदुःखघटनात् । अथवा, तस्य - शरी
१ अन्योन्यानुगतयोरिमं च तच्चेति विभजनमयुक्तम् । यथा क्षीरपानीययोः ।
For Private & Personal Use Only
संग्रहणिः.
॥१५७॥
www.jainelibrary.org