________________
Jain Education Inter
| रस्योपग्रहे- स्रक्कन्दनादिभिरनुग्रहे सुखयोगात्, उपलक्षणमेतत् विषशस्त्रादिभिरुपघाते दुःखयोगदर्शनात् । कथंचिद-भेदे हि शरीरोपग्रहादावात्मनः सुखादियोगो भवति नान्यथा । तथा चाह - 'मुत्तस्स वेत्यादि' एकान्तेन आत्मनः सकाशात् शरीरस्यान्यत्वे सति एप - शरीरोपग्रहनिमित्तमुखयोगो मुक्तस्येव न स्यात्, उभयमपि प्रत्यन्यत्वाविशेषात् । अपि च, यदि शरीरादात्मा एकान्तेन भिन्नः स्यात् ततो नात्मनः शरीरासचेष्टादिनिमित्तो बन्धः स्यात्, नहि खत एव गिरिशिखरादुपनिपतता पाषाणेन जीवघाते सति देवदत्तस्य तन्निमित्तो बन्धो भवतीति । न च वाच्यं नैवात्मनः शरीरासच्चेष्टादिनिमित्तो बन्धः, किंतु खत एव तत्करणस्वभावत्वादिति । शरीरादेकान्तेनार्थान्तरभूतस्य मुक्तानामिव निष्क्रियत्वेन तत्कर्तृत्वायोगात् । अथ मा भूदेष दोष इति नैवात्मा कर्मणां कर्त्तव्यते किंतु प्रकृतिः, आत्मा तु केवलं तेषां भोक्तेति । तदप्ययुक्तम्, एवमन्यकृतकर्मान्यतत्फलभोगाभ्युपगमे देवदत्तकृतस्यापि कर्मणो जिनदत्तस्य फलोपभोगापत्तेः । अन्यच्च प्रकृतिरचेतना ततः कथं सा घटवत् अध्यवसायशून्यत्वात् कर्म्म करोति ? । | पुरुषेण प्रेरिता सती कर्म करोति न केवला ततो न कश्चिद्दोष इति चेत् । न, पुरुषस्योदासीनत्वाभ्युपगमेन प्रेरकत्वायोगात्, योगे वा अप्रच्युतानुत्पन्न स्थिरैकस्वभावतया सदा तदुपरमाभावप्रसङ्गतो मुक्त्यभावप्रसङ्गः । किंच - आन्तरादपि शरीरादेकान्तेनात्मनोऽन्यत्वाभ्युपगमे सति फलोपभोगोऽपि बुद्धिप्रतिविम्वोदयरूपो व्यावर्ण्यमानो नोपपद्येत, तस्यैकान्तेनामूर्त्तस्याकाशस्येव प्रतिविम्बासंभवात् । तस्मान्न शरीरादयमात्मा सर्वथा भिन्नः, किंतु कथंचित्, ततश्च
For Private & Personal Use Only
www.jainelibrary.org