________________
धर्म
॥१३३॥
माह - 'प्रकल्पने' विचारकत्वे अभ्युपगम्यमाने सति 'अतिप्रसङ्गो' मनोविज्ञानवदसन्निहितार्थग्राहिताद्यापत्तिलक्षणः प्राप्नोति । तथाहि विचारो नाम अयमेवंरूपो नान्यथेत्येवंलक्षणः, स च पूर्वकालदृष्टस्य इदानीं दृश्यमानस्य चैक्यपरामर्शे सति भवति नान्यथा, ततश्च मनोविज्ञानवत् अस्या अपि निर्विकल्पक बुद्धेर्विचारकत्वाभ्युपगमे सत्यसन्निहितार्थग्राहित्वं प्रसक्तमेव, तथा च सति इन्द्रियविज्ञानस्यापि मनोविज्ञानवत् अतीतानागतयोर्व्यावृत्तिनिमित्तखरूपाणामनित्यत्वादीनां च ग्रहणमूहरूपत्वमर्थ भावानपेक्षा - इच्छाप्रतिबद्धत्वमापद्येत, मनोविज्ञानस्य वा इन्द्रियविज्ञानवत् अतीतानागतयोर्व्यावृत्तिनिमित्तानित्यत्वादिस्वभावानां चाग्रहणमनूहरूपत्वमर्थ भावापेक्षा-अनिच्छाप्रतिबद्धत्वमापद्येत, असन्निहितार्थग्राहितया उभयोरपि विशेषाभावात् । यद्वा 'प्रकल्पने' इदमित्थमेव नान्यथेति निश्चयसमर्थ - त्वेऽभ्युपगम्यमाने सति अतिप्रसङ्गः प्राप्नोति, दानहिंसादिविरतिचेतनादीनामभ्युदयहेतुतादिनिश्चयापत्तेः, निर्वि कल्पक बुद्ध्या सर्वात्मना वस्तुग्रहणाभ्युपगमादिति ॥ ३०७ ॥ द्वितीयं पक्षमधिकृत्याह -
Jain Education International
तह णिच्छयबुद्धीए णत्थि तओ न खलु सावि तसिया । उपज य कस्सइ तदणंतरमण्णहावि तई ॥ ३०८ ॥
तथा 'निश्चयबुद्ध्या' विकल्पबुद्ध्या नास्ति 'तउ'त्ति सको विनिश्चय इदं वस्त्वित्थं नान्यथेत्येवंरूपो यस्मात्सापि -
For Private & Personal Use Only
|संग्रहणि: =
॥१३३॥
Www.jainelibrary.org