________________
धर्म
॥११९॥
यत तत्सत्तामात्रं कारणसत्तामात्रमपेक्षते कार्यमुत्पद्यमानमत एव अनन्तराद्धायां द्वितीयक्षणे भवति । विपक्षे बाधामाह-तदद्धायां - कारणाद्धायां पुनस्तद्भावे - कार्यभावे सति कथं नु तदपेक्षा - कारणापेक्षा कार्यस्य १, नैवापेक्षेतिभावः, तदा तस्य सर्वात्मना परिनिष्पन्नत्वात् ॥ २६५ ॥ अत्राह —
कतगत्तमेत्तसत्ता - णुबंधि अणिच्चत्तणं ण एवं तु ।
तदभेदातोत्तिमती भेदे अब्भुवगमो दुट्टो || २६६ ॥
नन्वेवं सति नैव, तुशब्द एवकारार्थः, उक्तं च- "तुः स्याद्भेदेऽवधारणे" इति कृतकत्वमात्रसत्तानुबन्धि अनित्यत्वं स्यात्, , द्वितीयेऽपि क्षणे कारणस्यानुवर्त्तमानत्वात् कथमन्यथा तस्मिन् क्षणे कार्यमुत्पद्यमानं तत्कारणमपेक्षेत ?, तस्य तदा सर्वथा विनाशात् । अथ स्यान्मतिः- तदभेदात्- तयोः कृतकत्वानित्यत्वयोरभेदात् कृतकत्वमात्रानुबन्धि अनित्यत्वमभ्युपगम्यत एव, तथाहि - यदि कृतकत्वमात्रानुबन्धि अनित्यत्वं न भवेत् तर्हि तत् पश्चाद्भवत् कारणान्तरसापेक्षं स्यात्, तथा च सति भिन्नहेतुकत्वात् कृतकत्वेन सह तादात्म्यं न भवेत् ?, इष्यते च तादात्म्यं तस्माद| नित्यत्वं कृतकत्वानुबन्ध्येवेति । अत आह-भेदे - क्षणभेदे द्वितीयक्षणे इतियावत्, कार्यस्य कारणं प्रत्यपेक्षाया योऽसावभ्युपगमः स दुष्टः, तदा तस्य विनष्टत्वेन कार्यस्य तदपेक्षाया अनुपपत्तेः ॥ २६६ ॥ अत्र पराभिप्रायं दूषयितुमाशङ्कमान आह
Jain Education International
For Private & Personal Use Only
संग्रहणिः
॥११९ ॥
www.jainelibrary.org