________________
Jain Education Int
अह तस्सेस सहावो अनंतरखणम्मि होइ जं कज्जं । रस्सवि एसोच्चि एतंपि न जुत्तिपडिबद्धं ॥ २६७ ॥
अथ तस्य-कारणस्य एष एव स्वभावो येन तस्यानन्तरक्षणे कार्य भवति न सदा, इतरस्यापि च - कार्यस्यायमेव स्वभावो यदुत कारणक्षणानन्तरं मयोत्पत्तव्यमिति, तथा च कुतः पूर्वोक्तदोषावकाश इति । तत्र दूषणमाह- 'एयं पीत्यादि एतदपि अनन्तरोक्तं न युक्तिप्रतिबद्धम् ॥ २६७ ॥ कथमित्याह
जं तक्खणभवणमिव णिबंधणं तस्स तस्सहावो तु । तदभावम्मिय भावे अतिप्पसंगो बला होति ॥ २६८ ॥
'यत्' यस्मात्तस्य- कार्यस्य तत्क्षणभवनेऽपि - कारणक्षणानन्तरक्षण भवनेऽपि 'तत्स्वभाव एव' कारणस्वभाव एव, तुशब्द एवकारार्थः, 'निबन्धनं' कारणं न त्वन्यत्, कुत इत्याह-'तदभावे च' हेतौ कारणस्वभावाभावे यस्मात् कार्यस्य भावे इष्यमाणे बलादतिप्रसङ्गः प्राप्नोति, पूर्वमपि तद्भावप्रसक्तेः ॥ २६८ ॥ -
बितियक्खणे य कज्जं ण य सो तम्मि खणिगत्ततो सिद्धं ।
For Private & Personal Use Only
www.jainelibrary.org