________________
Jain Education Int
'तत्काले च' कारणकाले च 'तस्य' कार्यस्य भावे इष्यमाणे सति कथं हेतुफलभावभावः स्यात् ? । कथं न स्यादित्यत आह-एककालभावित्वात् । भावे च एककालयोरपि हेतुफलभावस्येष्यमाणेऽतिप्रसङ्गः स्यात्, सव्येतर गोविषाणयो| रपि तद्भावप्रसक्तेः ॥ २६३ ॥ द्वितीयपक्षमधिकृत्याह
तक्किरिया चुप्पत्तिं मोत्तुं तस्सेव णत्थि अण्णा तु । एत्थमभावम्मिय पुववण्णिया चेव दोसा उ ॥ २६४ ॥
'तक्रिया च' कारणक्रिया च तस्य कारणस्योत्पत्तिं मुक्त्वा नैवान्या काचिदस्ति । "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते " इति वचनात् " । एवशब्दो भिन्नक्रमः, स च यथास्थानं योजितः । तुः पादपूरणे । अत्र दोषमाह - 'एत्थेत्यादि' अत्र-तक्रियापक्षे, तृतीये चाभावपक्षे, पूर्ववणिता एव दोषा द्रष्टव्याः तथाहि यदा कारणक्रिया कारणोत्पत्तिमात्रमेव तदा तत्सत्तामात्रपक्षभावी यो दोषः सोऽत्रापि तदवस्थ एवावर्तते । अभावपक्षे च ' नाभावो उ भावो' इत्यादिरूप इति ॥ २६४ ॥
जत्तो च्चिय तरसत्ता - मेत्तं अत एवऽनंतरद्धाए ।
हो दाए पुणभावे कह णु तदद्वेक्खा ? ॥ २६५ ॥
For Private & Personal Use Only
www.jainelibrary.org