________________
तुल्लत्थसाधिगा अह सत्ती णो तेसि जेसु ता अत्थि।
ते चेव तहाभूता सा एगा वा अणेगत्ति ? ॥ ३२४ ॥ अथ तयोः गोघटयोः परस्परं तुल्यार्थप्रसाधिका शक्तिर्न विद्यते, ततो न तयोस्तुल्यार्थप्रसाधकत्वम् , येषु पुनबूंमादिषु परस्परं तुल्यार्थप्रसाधिका शक्तिरस्ति त एव तथाभूताः-परस्परं तुल्यार्थक्रियाप्रसाधकास्ततो न कश्चिद्दोप इति । अत्र दूपणमाह-'सेत्यादि' सा तुल्यार्थक्रियाप्रसाधिका शक्तिस्तेषु धूमादिपु किमेका वा स्यादनेका वेति विकल्पद्वयं, गत्यन्तराभावात् ॥३२४॥ तत्र
जति एगा कह भिन्नेसु वट्टते ? किं च तह ण सामण्णं ? ।
अञ्चंतणेगपक्खे सो चेव अतिप्पसंगो तु ॥ ३२५॥ यद्येका शक्तिरिति पक्षाभ्युपगमस्तर्हि सा कथं तेषु धूमेपु देशकालभेदभिन्नेषु वर्त्तते ?,नैव वर्तत इतिभावः। एकस्थानेकत्र देशेन कात्न्येन वा सर्वथा वृत्त्ययोगात् । देशेन हि वृत्त्यभ्युपगमे सदेशवप्रसङ्गः, कात्स्न्येन तु एकत्रैव सर्वात्मना परिसमाप्तत्वादन्यत्र वृत्त्यभावप्रसङ्गः । अपिच, यद्येका शक्तिरनेकत्र वर्तमानेष्यते तर्हि नैयायिकादिपरिकल्पितं सामान्यं विवक्षितशक्तिवत् अनेकत्र वर्तमानं किं नेष्यते ?,तुल्ययोगक्षेमत्वात् ,तथाचाह-'किंच तह न साम
Jain Education Intel
For Private & Personel Use Only
Mww.jainelibrary.org